वर्तत इति साशीति अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स उत्तमसाह
ससंज्ञो वेदितव्यः । तदधं मध्यमः तस्य साशीतिपणसहस्रस्यार्ध चत्वारिंशद
धिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । तदर्धमधमः तस्य चत्वा
रिंशदधिकपञ्चशतपणस्यार्ध ससत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहस
संज्ञः स्मृत उक्तो मन्वादिभिः । यतु–“पणानां द्वे शते साधे प्रथमः साहस
स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्त्रं त्वेव चोत्तमः’ इति (८। १३८) मनुनोक्तं
तत्पक्षान्तरममतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥
दण्डभेदानाह -
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । |
धिग्दण्डो धिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः । ध नदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिजीवितान्तः । एते चतु विधा दण्डाः व्यस्ता एकैकशः, समम्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्र योक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनु धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमत परम् ॥’ इति ॥ ३६७ ॥ दण्डव्यवस्थानिमित्तान्याह
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । |
यथापराधं ज्ञात्वा तदनुसारण दण्डप्रणयनमेवं देशकालवयः:कर्मवित्तानि
ज्ञात्वा तदनुसारेण दण्डयेषु दण्डार्हपु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबु
द्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त
स्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधिकृतस्यायं
तच्यः । “राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेनृपः’ इत्यत्र पृथइनृपग्रहणात्करग्रह
णस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणयनायत्तत्त्वादिति ।। ३६८ ॥
इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टा
रकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्रविवृतौ सदाचारः प्रथमाध्याय
उत्तमोपपदयेयं शिष्यस्य कृतिरात्मनः । धर्मशास्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥
अस्मिन्नध्याये प्रकरणानि ! १ उपाद्वातप्रकरणम् ॥ २ ब्रह्मचारिप्रकरणम्
३ विवाहप्रकरणम् । ४ जातिविवेकप्रकरणम् । ५ गृहस्थधर्मप्रकरणम् । ६ स्रा
तकवतप्रकरणम् । ७ भक्ष्याभक्ष्यप्रकरणम् । ८ द्रव्यशुद्धिप्रकरणम् । ९ दानधर्म
१ १ १२
प्रकरणम् ॥ १३ राजधर्मप्रकरणम् । एवं त्रयोदश प्रकरणानि ॥
याज्ञवल्क्यमुनिशास्रगतेयं विवृतिर्न कस्य विहिता विदुषः । |