व्यवहाराध्यायः ।
साधारणव्यवहारमातृकाप्रकरणम् १
अभिषेकाद्विगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच्च दुष्टनिग्रहम न्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति । तद्य वहारदर्शनमहरहः कर्तव्यमित्युक्तं—‘व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्व हम्’ इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते -
व्यवहाराछूपः पश्येद्विद्वद्भिब्रह्मणैः सह । |
व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मत्रि शेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिः । ब्राह्मणैर्न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेषामप्राधान्यम् । ‘सहयुक्तऽप्रधाने' (पा. २॥३॥१९) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः (८॥१२८)–“अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाझोति नरकं चैवै गच्छति ॥' इति । कथम् । धर्मशास्त्रानुसारेण नार्थ शास्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथाच वक्ष्यति–“निजधर्माविरोधेन यस्तु सामैयेिको भवेत् । सोऽपि यत्रेन संरक्ष्यो धर्मो राजकृतश्च यः ॥’ इति । क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे ‘क्रोधलोभविवर्जितः’ इति वचनमादरार्थम् । क्रोधो
ऽमर्षः । लोभो लिप्सातिशयः ॥ १ ॥
१ दर्शनेन विनेति व्यवहारदर्शनै ग. २ ‘विप्रतिपद्यमाननरान्तरगताज्ञाताधर्मज्ञापना नुकूलो व्यापारो व्यवहारः । वादिप्रतिवादिकर्तृकः संभवद्भोगसाक्षिप्रमाणको विरोधकोटि व्यवस्थापनानुकूलो व्यापारो वा सः । संप्रतिपत्त्युत्तरे तु व्यवहारपदप्रयोगो भाक्त इति मदनरले’ इति व्य. म .-‘वि नानार्थेऽव संदेहे हरणं हार उच्यते । नाना संदेहहरणा द्वद्यवहार इति स्मृत इति कातीथम्. ३ चाधिगच्छति ख. ४ अर्थशास्त्रं नीतिशास्त्र औशनसादिकम्.५ देशेति.। आदिना देवगृहादिपरिग्रहः । पारिभाषिकधर्मेण व्यवस्थानं समयः.६.वक्ष्यति अग्रे संविद्यतिक्रमप्रकरणे. (क्षेो. १८६). ७ सामयिको धर्मो याव त्पथिकं भोजनं देयमसदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवंरूप: