पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
साधारणव्य ०मा०प्र०१ ]
१२३
मिताक्षरासहिता ।

रणं मिथ्योत्तरमिदम् ॥-अत्र च प्रतिवादिनः क्रिया, ‘कारणे प्रतिवादिनि इति वचनात् ॥ नैनु ‘मिथ्या क्रिया पूर्ववादे’ इति पूर्ववादिनः कस्मात्क्रिया न भवति । तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासह रितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् । प्रसिद्धेकारणोत्तरे प्रतिज्ञाताथैकदे शस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्-- -यथा सत्यं रूपकशतं गृहीतं न धार यामि प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञाताथैकदेशस्याप्यभ्युपगमो नास्तीति विशेष । एतच हारीतेन स्पष्टमुक्तम्—‘मिथ्याकारणयोर्वापि ग्राह्य कारणमुत्तरम्’ इति । यत्र मिथ्याप्राङ्गन्याययोः पक्षव्यापित्वम्---यथा रूपकशर्त धारयतीत्यभियोगे मिथ्यैतद्दस्मिन्नर्थे पूर्वमयं पराजित इति । अत्रापि प्रतिवा दिन एव क्रिया –“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्’ इति वच नात्, शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रैतिपत्तेरपि साध्यत्वेनो पदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वादेवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः--यथा शतमनेन गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादि नो यथारुचीति न कचिद्वादिप्रतिवादिनोरेकस्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णय: ॥
 

एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या

दित्यपेक्षित आह --

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥

  तत उत्तरानन्तरंमर्थी साध्यवान् सद्य एवानन्तरमेव लेखयेत् । प्रतिज्ञात साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रर्माणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृत मिति गम्यते । तञ्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्त, अतश्च प्राङ्न्या योत्तरे प्राङ्न्याययैव साध्यत्वात्प्रत्यथ्यैवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साधुत्वात्कारणवाद्येवार्थति स एव लेखयेत् । मिथ्यो त्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेतें । ततोऽर्थी लेखयति वदता थ्र्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्युत्तरे साध्याभावेन भाषोत्तरत्वा दिनोर्द्धयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तैावतैव व्यवहारः परि

समाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—‘प्राङ्न्यायकारणोक्तौ


१ प्रतिवादिना तस्यैवोक्तत्वमभिप्रेत्य प्राधान्यादरेण शङ्कते नन्विति. २ सत्यं गृहीतं प्रतिदत्तं चेत्येवंरूपे प्रागुक्त. ३ सत्यस्यापि. ४ निवेशिते लेखिते. ५ अथ्र्यंत इत्यर्थः साध्यं स यस्यास्तीत्यर्थी. ६ प्रमाणं लिखितादि वक्ष्यमाणम्. ७ निर्दिशेछेखयेत्. ८ अथ्र्येवेति आक्षेपादेव कर्तृलाभे तदुक्तिनियमार्थेति भावः. ९ तादृशोत्तरदानेनैव