पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[ व्यवहाराध्यायः
याज्ञवल्क्यस्मृतिः ।

म्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्न केवलं दण्डय । पराजीयते च ॥ ९ ॥
  ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजये'दित्यस्यापचादमाह --

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।

  कलहे वाग्दण्डपारुष्यात्मके साहसेषु विवशस्रादिनिमित्तप्राणव्यापादना दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे यु गपद्यवहारासंभवः समानः । सत्यम् । नात्र युगपष्टद्यवहाराय प्रत्यभियोगो पदेशः, अपितु न्यूनदण्डप्रासये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शसो वेत्यभियोगे पूर्वमहमनेन ताडितः शसो वेति प्रत्यभियोगे देण्डा ल्पत्वम् । यथाह नारदः–“पूर्वमाक्षरयेद्यस्तु नियतं स्यात्स दोषभाक् । प श्राद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरु ॥’ इति । यदा पुनर्द्धयोर्युगपत्ताड नादिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः–“पेरुप्ये साहसे वापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ।।' इति । एवं युगपद्यवहारप्रवृत्य संभवेऽपि कलहादेो प्रत्यभियोगोऽर्थवानृणादानादिषु तु निरर्थक एव । अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह--

उभयः प्रतिभग्राह्यः समर्थः कार्यनिर्णये ।। १० ।।

  उभयोरर्थिप्रत्यार्थनोः सर्वेपु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिता शुयादुिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयैस्य यत्कार्य च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्य तद्वद्भवतीति प्रतिभू ग्रह्यः ससभ्येन सभापतिना । तैस्यासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियो क्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः “अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वीदिन । स रक्षितो दिनस्यान्ते दद्याद्भ त्याय वेतनम् ॥’ इति ॥ १० ॥
  अर्थिप्रत्यर्थिनोर्निर्णयकायें ससभ्येन सभापतिना प्रतिभूग्रीह्य इत्युक्तम्, किं तन्निर्णयकार्य यस्मिन्प्रतिभूगृह्यत इत्यपेक्षित आह --

निह्नवे भावितो दद्याद्धनं राइ३ च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ।। ११ ।।

 

अर्थिना निवेदितस्याभियोगास्य प्रत्यर्थिनापह्नवे कृते यद्यर्थिना साक्ष्यादिभि


१ वदन्केवलं. ग. २ दण्डेति प्रत्यभियोतुरिति भावः. ३ आक्षारयेत् कायेन वाचा बा क्षीणं कुर्यात. ४ विनयो दण्ड . ५ पारुष्यं वाग्दण्डादि. ६ एवं उक्तप्रकारद्वयेन एवं सतीति पाठः. ७ निर्णयस्य कार्य च ख . ८ प्रतिभूः 'जामिन' इति भाषाप्रसिद्धो

  • ऽयम्. ९ तस्य प्रतिभुवः. १० वादिन इति द्वयोरेकशेषः, जातावार्ष वा एकवचनम्

तेनार्थिप्रत्यार्थिनोः समासेन ग्रहणम्. ११ प्रतिभूट्र्याह्य इत्यत आह ग