भर्भावितोऽङ्गीकारितः प्रत्यथ तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सममपला
पदण्डम् । अथार्थी भावयितुं न शक्रोति तदा स एव मिथ्याभियोगी
इत्यभियोगादभियुक्तधनाद्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने
चेदमेव योजनीयम् । तत्राथ्यैवाऽपह्नववादीति प्रत्यर्थिना भैवेितो राज्ञे प्रकृ
तधनसमं दण्ड दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न
शोति तदा स एव मिथ्र्येभियोगीति राज्ञे द्विगुणं धनं दद्यात् । आर्थिने च
प्रकृतं धनम् । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव ।
पंदान्तरेषु तत्र तत्र दण्डाभिधानादर्धनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयम् ।
राज्ञाऽधमर्णिको दाप्यः' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेष
क्ष्यामः । यद्वैतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य
निह्नवेऽभियुक्तन कृते यद्यभियोक्रा साक्ष्यादिभिर्भावितोऽभियुक्तस्तदा तत्समं
तत्र तत्र प्रतिपदोक्तमेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इंत्यनुवादः ।
अथाभियोक्ता अभियोगं वतुं न शक्रोति तदा मिथ्याभियोगीति प्रतिपदोत्तं
धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च
पूर्ववदेव योजनीयम् ॥ ११ ॥
ततोऽथ लेखयेत्सद्यः प्रतिज्ञातार्थसाधनमिति वदतोत्तरपादलेखने कालप्रती
क्षणं दर्शितं तत्रापवादमाह -
साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् । |
साहसं विषशस्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौदग्धी । अभिशापः पातकाभियोगः । अत्ययः णधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रचेिवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दाप येत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदा
नकालः इच्छयार्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उत्कः ॥ १२ ॥
१ प्रकृतधनसममपलापनिमित्तकदण्डम्. २ भावयितुं समर्थयितुम्. ३ धनं दद्याद्राज्ञे ख. ४ तत्राप्यर्थेऽपहृववादी प्रत्य. ख. ५ अस्मिन्नर्थेऽयं पूर्वं पराजित इति प्राङ्न्यायो तरे गृहीतं प्रतिदत्तमिति कारणोत्तरे च दत्त पूर्वन्यायं प्रतिदानं च प्रतिशांवाद्येवाप लपतीति सएवापलापवादीत्यर्थः. ६ भावितः जयपराजयरूपप्राङ्न्यायस्य प्रतिदानस्य च साधनादङ्गीकारितो वादी: ७ मिथ्यावादी. ८ निह्नवे भावितो दद्यादित्यतत्. ९ पदान्त राणि द्विविधानि सधनानि अधनानि च । तत्र सधनेष्वाह पदान्तरेष्विति. १० अधनेति । वाग्दण्डपारुष्यादिव्यवहारेषु प्रकृतधनसमदण्डदानस्य तद्विगुणदानस्य वासंभवाचेत्यर्थ ११ तत्समं व्यवहारतुल्यम्. १२ अनुवाद इति । तद्यवहारे. दण्डस्य विशिष्यविहितत्वेन प्राप्तत्वाद्विध्यसंभवेन पूर्वार्थेन तस्य सर्वस्य सामान्येनानुवाद इत्यर्थः. १३ प्रागुक्तनिमित्ता न्यनिमित्तकोऽत्र प्राणनाशेो प्राह्म या० १४