दुष्टलक्षणमाह -
देशाद्देशान्तरं याति सृकिणी परिलेढेि च । |
मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं वेिकारं याति गच्छति असावभियोगे साक्ष्ये वां दुष्टः परिकीर्तित । तां विकृतिं विभज्य दर्श यति । देशाद्देशान्तरं याति न कविदवतिष्ठते । सृकिणी ओष्टपैर्यन्तौ परिलेढेि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृति । अस्य ललाटं स्विद्यते स्वेद बिन्द्वङ्कितं भवति, मुखं च वैवण्र्य विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा इति गच्छ तीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्भददं स्खलङद्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचो विकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति, चक्षुव प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् तथा ओष्ठो निभुजांति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्रमुच्यते न दोषनिश्चयाय । स्वाभाविकनैमि त्तिकविकारयोर्विवेकंस्य दुर्वेयत्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गेदवगतेऽपि न पराजयनिमित्त कायप्रसङ्गः ॥ १३ ॥ १४ ॥ १५ ॥
संदिग्धार्थ खतत्रो यः साधयेद्यश्च निष्पतेत । |
किंचव । संदिग्धमर्थमर्धमणेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः सा धयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्न साधनेन वा साधितं याच्यमानो निष्पतेत्पलायते, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति सोऽपि हीनो दण्ड्यश्च स्मृत इति संबध्यते । ‘अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरिज्ञानमात्रमेव माभूदिति दण्डयग्रहणम् । दण्ड्यश्चापि *शास्योऽप्यर्थान्न हीयत’ इत्यर्थादहीनत्वदर्शनादत्र
तन्माभूदितेि हीनग्रहणम् ॥ १६ ॥
१ याति गच्छति गच्छति यातीत्यर्थः । श्रेोके गच्छेदित्यस्य लिङर्थाविवक्षायां तस्य पूर्व विवरणं प्रदइयै ततो यातीति प्रदर्शनीयम्. २ वा चार्थे. ३ पर्यन्तै प्रान्तौ. ४ तथा वैवण्र्यादिवत्. ५ विवेकस्य भेदस्य. ६ दुशीनत्वात् ग. ७ यत्किंचिद्विकारात्. ८ ऋण ग्राहिणा. ९ द्विविधोऽपीत्यर्थे