अथ यत्र द्वावपि युगपद्धर्माधिकारिणं प्रासैौ भाषावादिनौ । तद्यथा । कश्चि त्प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं अन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं गतः । ततो द्वावपि युगपदागत्य मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रमिति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्याकाङ्कित आह -
साक्षिषुभयतः सत्सु साक्षिणः पूर्ववादिनः । |
उभयतः उभयोरपि वादिनोः साक्षिषु संभेवत्सु साक्षिणः पूर्ववादिनः पूर्व स्मिन्काले मया प्रतिग्रहीतमुपभुक्तं चेति यो वदत्यसौ पूर्ववादी न पुनर्यः पूर्व निवेदयति तस्य साक्षिणः प्रष्टव्या यदा त्वन्य एवं वदति सत्यमनेन पूर्वे तिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्य दत्त मिति, अनेन वा प्रतिग्रहेण लब्ध्वा मह्य दत्तमिति तत्र पूर्वपक्षोऽसाध्यतया ऽधरीभूतस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिन साक्षिणः प्रष्टव्या भवन्ति । इदमेव व्याख्यानं युक्ततरम् । मिथ्योत्तरे पूर्ववाः दिनः साक्षिणो भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिन साक्षिणो भवन्तीति व्याख्यानमयुक्त प्रतिज्ञातार्थसाधनम्’ इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्व व्याख्यानमेव स्प ष्टीकृतं नारदेन-“मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्रेङ्न्यायवेि धिसेिद्धेौ तु जयपत्रं क्रिया भवेत्। इत्युक्त्वा–‘द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिण इत वदता । एतस्य पूँर्वव्यवहारविलक्षणत्वाद्वेदेनोपन्यास: ॥१७॥
सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् । |
अपिच । यदि विवादो व्यवहारः सपणः पंणैर्न पणस्तेन सह वर्तत इति सपणः स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूँवोत्तं दण्डं स्वकृतं पणं ज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपा वेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिश्च प्रवृत्ते पण
तिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो
१ क्रिया साधनम्. २ साक्षिषु सत्सु ग ३ उक्तपूर्ववादिभिन्न ४ स्तस्मिन्पक्षे ग. ५ अर्थी साध्यवान्. ६ मिथ्या मिथ्योत्तरे. ७ पूर्वन्यायकरणनिश्चये तु. ८ पूर्वत्र काले गृहीतमुपभुक्तं चेतीलयर्थः. ९ सर्वव्यवहार इति पाठस्तत्र प्रागुक्तसर्वेत्यर्थः. १० पणनं व्यवहरणं । स्वोक्तिसत्यतासूचनाय यथासंभवद्रव्यदानाङ्गीकरणमिति यावत्. ११ प्रकृतार्थ सममिति निहवे भावित इत्यत्रोक्तम्. १२ प्राड़िवाकादिरिति शेष १३ तत्र निमित्तस त्वादप्रवृत्तौ मानाभावाचेति भाव