पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
असाधारणव्य ०मा०प्र०१ ]
१३५
मिताक्षरासहिता ।

उत्तरकायें साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजी यते । तद्यथा-कश्चिद्भहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जैयी भवति । तथा पूर्व द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् तत्रो भयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वांबाधेनानु त्पत्तेः । उक्तंच–“पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति’ इति ॥
  अस्यापवादमाह --

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।। २३ ।।

  आध्यादिषु त्रिषु पूर्वमेव कार्य बलवत् । तद्यथा-एकमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भ वति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्ववाहितस्य तदानीमस्वत्वात्पुनराभ्धा नमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते तस्मादिदं वच नमनर्थकम् । उच्यते—अस्वत्वेऽपि यदि मोहात्कश्चिच्छोभाद्वा पुनराधानादिकं करोति तत्र पूर्व बलवदिति न्यायमूलमेवेदं वचनमेित्यचोद्यम् ॥ २३ ॥
  भुत्तेः कैश्चिद्विशेषेणैर्युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिदुक्तः कार्या- न्तरमाह --

पश्यतोऽबुवतो भूमेर्हनिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥

  परेणासंबॅन्धेन भुज्यमानां भुवं धनं वा पश्यतः अबुवतः मदीयेयं भूः न त्वया भोक्तव्येत्यप्रतिषेधयतः तस्या भूमेर्विशतिवार्षिकी अॅप्रतिरवं विंशतिवर्षे पभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वे तदनुपपन्नम् । नह्यप्रतिषेधात्स्वत्वमपगच्छति । अप्रतिषेर्द्धस्य दानविक्रयादिव त्स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षेपभोगात्स्व त्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रैमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच । तथाहि-‘स्वामी रिक्थक्रयसंविभा गापरिग्रहाधिगमेषु ब्राह्मणस्यादिकं लब्धं, क्षत्रियस्य विनिर्जितम्, निविष्टं वै

श्यशूद्रयोः इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न भोगम् । नचेदमेव


१ जयति ख. २द्वे वृद्धिर्यस्य तद्दिकम् ‘तदस्मिन्’ इति कन्. ३ कैश्चित् आसेधरहितत्वचि रकालत्वादिभिः. ४ असंबद्धनेति पाठः. ५ पश्यतः वादिनः. ६ अशब्दं यथातथेत्यर्थ अप्रतिषिद्धस्य. ख. ८ स्वत्वम् । उत्पद्यत इतिशेषः. ९ तस्य स्वत्वविषयकप्रमितिजनक त्वादित्यर्थः. १० प्रमाणस्य=उपभोगस्य प्रमेयं=स्वत्वंप्रति. ११ स्वामीति रिक्थादिषु पञ्चसु सत्सु स्वामी भवति । अप्रतिबन्धो दायो रिक्थं, सप्रतिबन्धः संविभागः, क्रयः प्रसिद्धः अरण्यादिष्वनन्यपरिगृहीततृणकाष्ठादिस्वीकरणं परिग्रहः, निध्यादिप्राप्तिरधिगमः, इमे सर्व साधारणस्वत्वकारकहेतवः । असाधारणातु ब्राह्मणस्य. प्रतिग्रहादिना लब्धं, क्षत्रस्य पर पराजयेन लब्धं, वैश्यशूद्रयोः निर्विष्टं=भोगरूपेण भृतिरूपेण वा लब्ध तदधिकं=असाधारणं स्वत्वजनकम्. १२ विजितं ध. १३ नचेदं वचनं गा