पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ विंशतिव. याज्ञवल्क्यस्मृतिः। प्रयच्छत । उभा ता वोत्पत्तिहेतुत्वं प्रतिपाद्यतीति युक्तम् । स्वत्वस्य लोकप्रसिद्धत्वेन शाखैकसमधिगम्यत्वाभावात् । एतच्च विभाग प्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् अनागमं तु यो भुङ्गे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवी इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुद्धच्यते । नच अन्नागम तु यो भुङ्गे' इत्येतत्परोक्षभोगविषयम् । पश्यतोऽबुवत इति प्रत्यक्षभोगविषय मिति युक्तं वत्कुम् । अनागमं तु यो भुङ्गे इत्यविशेषाभिधानात्--'नोपभोगे बलं कार्यमाहत्र तत्सुतेन वा धमों व्यवस्थित इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् नचैतन्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन विंशतिवर्षेपभोगयुक्ताया, धनविषये दशवर्षोंपभोगयुक्ताया उत्तरस्या क्रियायाः प्राबल्यमनेनोच्यत इति । यतखेतपूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्व मेव ह्याधेयं देयं विक्रेयं च भवति । नचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्व मस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते–‘अदेयं यश्च गृह्णाति यश्चादेयं चौरवच्छास्यौ दाप्यो चोत्तमसाहसम् ।' इति । तथाध्या दीनां त्रयाणामपवादत्वे त्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपप द्यते । तस्माद्भदूम्यादीनां हैंानिरनुपपत्रैव । नापि व्यवहारहानि पेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्टत काले विपन्ने पूर्वोत्ते व्यवहारो न सेि द्वयति ॥’ इति नारदेनोपेक्षालिङ्गगभावकृता व्यवहारहानिरुक्ता नतु वस्त्वभा वकृता । तथा मनुनाप अजडश्चदपौगण्डो विर्षयश्चास्य भुज्यते । भद्रं तद्धद्य वहारेण भोक्ता तद्धनमर्हति ॥’ इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । वहारभङ्गश्चैवम्-भोक्ता किल वदति ‘अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदाखेते’ इति, तत्र चार्य निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । “छलं निरस्य भूतेन व्यवहारान्नयेनृप इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिनपि व्यवहारहानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भव तीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच न मार्तकालाया त्वाभावात्, तूष्णीं न स्थातव्यमेिलेयतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते—‘विंशतिग्रहणमूध्र्व पत्रदोषोद्धा वननिराकरणार्थम् ।’ यथाह कात्यायन भुज्यते । विंशतिवर्षाण्यन्तिक्रान्तं तत्पत्रं दोषवर्जितम् ॥' इति । तदपि न । स्वत्व [व्यवहाराध्यायः १ १ उत्तरविषयक्रियायाः ख २ तेषु आध्यादिषु. ३ खत्वविशिष्टमेव-स्वयमेव ध. ४ अस्वत्वस्य ख. ५ अपवादोऽपवादत्वम्. ६ स्वत्वहान्या स्वरूपहानेिः. ७ तस्य वादिन ८ उपेक्षायां यानि लिङ्गानि जडत्वबालत्वादीनि तेषां योऽभावस्तत्कृता. ९ विषयो देशः; अस्य धनिनः. विषये चास्य भुञ्जते इति ध. पाठ १० अथमतमित्यन्यथाव्याख्यानं ११ मरणविषयतायोग्यकालिका या