१४० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः शतायुवै पुरुषः' इति श्रुते अनुगमाभावादिति योग्यानु पलब्थ्यभावेनागमाभावनिश्चयाभावादित्यर्थ अतश्च वर्षशताधिको भोग संततोऽतिरव प्रत्यर्थिप्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाक्षिसागम स्वत्वं गमयति । अस्मातेंऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमा णम् । अतएव अनागममं तु यो भुङ्के बहून्यब्दशतान्यपि । चै पापं दण्डयेत्पृथिवीपति इत्युक्तम् । नच “अनागमं तु यो भुङ्गे' इत्येकवचन निर्देशात् ‘बहून्यब्दशतान्यपि’ इत्यपिशब्दप्रयोगात्प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यम्, द्वितीये तृतीये वा पुरुषे निरा गमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते–“आदौ तु कॅारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे–‘अना गमं तु यो भुङ्गे' इत्येतद्रष्टव्यम् । यदपि-‘अन्यायेनापि यडुक्तं पित्रा पूर्व तरेखिभि न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इति, तदपि पित्रा सह पूर्वतरैस्त्रिभिरिति योज्यम् । तत्रापि क्रमात्रिपुरुषागतमित्यस्मार्तकालोपभोग लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात् द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंग तथा सति–“स्मार्तकाले क्रिया भूमे सागमा भुक्तिरिष्यते’ इति स्मृतिविरोध अन्यायेनापि यदुक्तम्’ इत्येतचा: न्यायेनापि भुक्तमपहर्तु न शक्यं किं पुनरन्यायानिश्चये इति व्याख्येयमपिशब्दः श्रवणात् । यच्चोत्तं हारीतेन–‘यद्विनागममत्यन्तं भुक्तं पूवैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतुं क्रमात्रिपुरुषागतम् इत तत्राप्यत्यन्तमागमं विनेति अत्यन्तमुपलभ यमानमागममं वेिनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आग मस्वरूपाभावे भोगाशतेनापि न स्वत्वं भवतीत्युक्तम् । क्रमात्रिपुरुषागतमेित्ये तदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथाहि-यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगास्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्र माणान्तरेणागमो नावगतः कथं तद्विशिष्ट भोगः प्रमाणम् । उच्यते--प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोग कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं म् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्वमनचद्यम् आगमसापेक्षो भोगः प्रमाणमित्युक्तं, आगमस्तहिं भोगनिरपेक्ष एव प्रमाण मित्यत आह आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥ यस्मिन्नागमे स्वल्पापि भुक्तिभेगो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति । २ प्रथमस्य पुरुषस्य. ख० ३ कारणं क्रिया प्रमाणमिति यावत. ४ भुक्तै पूर्वतरैस्त्रिभिः. इति पाठ अस्मार्तकालोपलक्षकत्वेनोक्तार्थकम्. ६ भोगान्येन प्रत्यक्षादिना. ७ अलं समर्थ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति