असाधारणव्य०मा०प्र०२] मिताक्षरासहिता । कृत्स्रमेव दद्यात् । यदा पुनः संवत्सरादूध्र्वमागच्छति तदा-ङ्कागं. रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह–‘आददीताथ षङ्कागं प्रनष्टाधिगता नृपः । दशमं द्वादृशं वापि सतां धर्ममनुस्मरन् ॥' इति । तत्र प्रथमे वर्षे कृत्स्नमेव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगत्रे दातव्य । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगात्रे दत्वा शेषं राजा गृह्णीयात् । तथाह गौतमः–‘प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमूध्र्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इति । अत्र संवत्सरमेित्येकवचनमविवक्षितम् । ‘राजा ञ्यब्दं निधापयेत्’ इति स्मरणात्–‘हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूध्र्व व्ययीकरणाभ्यनुज्ञापरम् । ततः परमागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्समं दद्यात् । एतच्च हिरण्यादिविषयम् । गवादि विषये वक्ष्यति–‘पणानेकशफे दद्यात्’ इत्यादिना ॥ ३३ ॥ रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह-- राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽर्ध द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ।। ३४ ।। इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ।। ३५ ।। उक्तलक्षणं निधिं राजा लब्ध्वा अर्ध ब्राह्मणेभ्यो दत्वा शेषं कोशे निवेश येत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वब्राह्मण व्यतिरिक्तन अविद्वब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगत्रे दत्वा शेषं निधिं स्वयमाहरेत् । यथाह वसिष्ठ –“अप्रज्ञायमानं चेित्तं योऽधिगाच्छे द्वाजा तद्धरेत षष्टमंशमधिगात्रे दद्यात्' इति । गौतमोऽपि–“निध्यधिगमो रोजधनं भवति न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठमंशं लभेतेत्येके इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राज्ञेऽप्यनिवेदित विज्ञातः यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्व निधिं दाप्यो दण्डं च सत्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसंख्यादिभि स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादश वाँशं स्वयमाहरेत् । यथाह मनुः (८॥३५)-‘ममायमिति यो ब्रयान्निधिं सत्येन मानवः । तस्यादुदीत षङ्गागं राजा द्वादशमेव वा ।।' इति । अंशविकल्पस्तु वर्णकालाद्य पेक्षया वेदितव्यः । ३४ ॥ ३५ ॥ १ किंचिद्भार्ग ख . २ चतुर्थो भागः शेषं राश इति घ. ३ दद्याद्विप्रेभ्योऽर्ध ध ४ तद्धरेदधिगत्रे षष्ठांशं दद्यात्. ५ राजधनं न ब्राह्मणस्य ग. ध. ६ रूपकसंख्यादिभिः ख. ग
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति