पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम् ३] मिताक्षरासहिता । विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः स ऋणं दाप्यः । एतदुक्तं भवति यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिः । योषित भार्या गृह्यातीति योषिद्वाहः स तथैवर्ण दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाभेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्य । अन्यमाश्रितमन्याश्रितं मातृपि तृसंबन्धिद्रव्यं यस्यासावन्याश्रितद्रव्य न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्य पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां सैमवाये क्रमश्च पाठक्रम एव “रिक्थग्राह ऋणं दाप्यस्तदभावे योषिद्भाहस्तदभावे पुत्र' इति । नन्वेतेषां समवाय एव नोपपद्यते—‘न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रह णासंभवात् । योषिद्वाहोऽपि नोपपद्यते । मनुः (५॥१६२) न द्वितीयश्च साध्वीनां कचेिदतोपदिश्यते’ इति स्मरणात् । तथा तदृर्ण पुत्रो दाप्य इत्यप्ययुक्तम् । ‘पुत्रपौत्रैरणं देयम्’ इत्युक्तत्वात् । अनन्याश्रितद्रव्य इति विशेषणमप्यनर्थकम् । पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इलेयेतदपि न वक्त व्यम् । पुत्रे सत्यपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थ ग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते—पुत्रे सत्यप्यन्यो रिक्थ ग्राही संभवति । कुीबान्धबधिरादीनां पुत्रत्वेऽपि रिकैथहरत्वाभावात् । तथाच कुीबादीननुक्रम्य “भर्तवैयाः स्युर्निरंशकाः’ इति वक्ष्यति । तथा–‘सवर्णापुत्रो ऽयन्यायवृत्तिर्न लभेतैकेषाम्’ इति गौतमस्मरणात् । अतश्च कृीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णपुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषि ब्राहो यद्यपि शास्राविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृत एर्णापाकरणाधिकारी भवलेयव । योषिङ्गाहो यश्चतसृणाँ खैरिणीनामन्तिमां गृह्णाति, यश्च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारदः–“परपूर्वाः स्त्रिय स्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां खैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनभूः ग्रंथमा प्रोक्ता पुन:संस्कारक र्मणा ॥ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यसै सा द्वितीया प्रकीर्तिता ॥? उत्पन्नसाहसा उत्पन्नव्यभिचारा । –“असत्सु देवरेषु स्री बान्ध वैयाँ प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्रीप्रसूताऽप्र सूता वा पत्यावेव तु जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनः पत्युप्रैहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्रासान्देवरादीनपास्य या । उपगच्छेत्परै कामात्सा तृतीया प्रकीर्तिता ॥ प्रासा देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमि त्युपगता सा चतुर्थी प्रकीर्तिता ॥ अन्तिमा खैरिणीनां या प्रथमा च पुनर्भ १ समवाय एककालावच्छेदेन प्राप्तिः. २ रिक्थग्राहाभावात् ख. ३ भर्तव्यास्तु ख भर्तव्याश्च घ. ४ अन्यायवृत्तो न. ५ प्रथमा नाम ख. ग. ६ प्राप्ता देशाद्वरात्क्रीता ग