पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ याज्ञवल्क्यस्मृतेिः । [ व्यवहाराध्याय वाम् । ऋणं तयोः पतिकृतं दद्याद्यस्तामुपाश्रितः ।।' इति । तथान्योऽपि योषि ब्राह ऋणापाकरणेऽधिकारी तेनैव दर्शित –‘या तु सप्रधनैव स्री सापत्या वान्य माश्रयेत् । सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा –“अधनस्य ह्यपुत्रस्य मृतस्यो पैति यः स्त्रियम् । ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥’ इति । पुत्रस्य पुनर्वचनं क्रमार्थम् । अनन्याश्रितद्रव्य इति बहुपु पुत्रेषु रिक्थाभावेऽप्यं शग्रहणयोग्ययैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवमर्थम् । पुत्रही नस्य रिक्थिन इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्येवमर्थम् । पुत्रपौत्रैौ च रिक्थग्रहणाभावेऽपि दाप्यावि. पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥' इति सर्व निरवद्यम् । यद्वा योषिद्धाहाभावे पुत्रा दाप्य इत्युक्तम् । पुत्राभावे योपिद्धाहो दाप्य इत्युच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योपिदेवोच्यते । ‘सैव चास्य धनं स्मृतम्’ इति सर णात्, ‘यो यस्य हरते दारान्स तस्य हरते धनम्’ इति च ॥ ननु योषिद्भाहा भावे पुत्र ऋणं दाप्यः पुत्राभाचे योषिद्भाह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद्दाप्य इति । नैष दोष । अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिण सप्रधनस्त्रीहारिणश्चाभाचे पुत्रो दाप्यः । पुत्राभावे तु निर्धननिरपत्ययोषिद्भाही दाप्य इति । एतदेवोक्तं नारदेन –“धनस्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्रीहारी धनिपुत्रयोः ॥' इति । धनस्रीहारिपुत्राणां समवाये यो धनं हरेत्स ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्री च धनं च स्त्रीधने ते विद्येते ययोस्तैौ स्त्रीधनिनौ तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋण भाक् भवति । धनिपुत्रयोरसतोः स्रीहायैवर्णभाक् । स्रीहार्यभावे पुत्र ऋणभाकू पुत्राभावे स्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्थ रिक्थिन इत्य स्यान्या व्याख्या-युते धनस्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य दाप्यास्तदभावे तँत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते पुत्रहीनस्य रिक्थिन इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहण योग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथाच नारदेन –‘ब्राह्मणस्य तु यद्देयं सान्वयस्य चें नास्ति चेत् । निर्वपेत्तत्सकुख्येपु तर्दभावेऽस्य बन्धुपु ॥’ इत्य भिहितम्--'यदा तु न सकुल्याः स्युर्न च संबन्धिबान्धवा । तदा दद्याद्विजे भ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥’ इति ॥ ५१ ॥ अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभते न तु स्मृतम् ॥ ५२ ॥ १ ऋणमोडुः घ. २ विरोधप्रतिभासः ख. ३ इति विवक्षायां ख . ४ तत्स्त्रीपुत्रादेः घ. ५ नचास्ति चेत् घ. ६ भावे स्वबन्धुपु ख