पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम् ३ ] मिताक्षरासहिता १५९ भोग्यस्य च तत्कालातिक्रमे नाश उत्क्तः –‘काले कालकृतो नश्ये'दिति । अकृत कालस्य भोग्यस्य नाशाभाव उक्तः–“फलभोग्यो न नश्यती'ति । पारिशेष्यादाधि प्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपित कालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋत्णी बन्धमवामुयात् ।।' इति ॥ नन्वाधि प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनि नश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् मनुवचनविरोधाच । (८। १४३)- न चाधेः कालसंरोधान्निसगोंऽस्ति न विक्रयः’ इति । कालेन संरोधः काल संरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाचिरकालावस्थानादाधेर्न निसगोऽस्ति नान्यत्राधीकरणमस्ति नव विक्रयः । एवामाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वत्वा भावोऽवगम्यत इति । उच्यते-आधीकरणमेव लोके सोपाधिकस्वत्वनिवृत्ति हेतुः । आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालेऽप्राशैौ च द्रव्यदानस्यात्यन्तनिवृत्तरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । नच मनुवचनविरोधः । यतः मनुः (८।१४३)-‘नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमामुयात्’ इति । भोग्याधिं प्रस्तुत्येदमुच्यते--न चाधेः कालसंरोधान्निसगोंऽस्ति न विक्रयः' इति । भोग्यस्याधेश्विरैकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिन त्वं नास्तीति । इहाप्युक्तं फलभोग्यो न नश्यतीति । गोप्याधौ तु पृथगारब्धं मनुना (८॥१४४)–“न भोक्तव्यो बलादाधेिर्भुञ्जानो वृद्धिमुत्सृजेत्’ इति । इहापि वक्ष्यते—गोप्याधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद्विगुणे इति तु गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥ गोप्याधिभोगे नो वृद्धिः सोपकारे चै हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ ५९ ।। किंच । गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे मह त्यपि वृद्धिहतव्या । समयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीव दैताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश्छिद्रभेदनादिना पूर्वव त्कृत्वा देयः । तत्र गोप्याधिर्नष्टचेत्पूर्ववत्कृत्वा देय । उपभुक्तोऽपि चेद्धृद्धिरपेि हातव्या । भोग्याधिर्यदि नैष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि हातव्या । विनष्ट आत्यन्तिकं नाशं प्रासः सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाश –“विनष्टे मूलनाश स्याद्वैवराजकृतादृते' इति नारदवचनात् । दैवराजकृतादृते । दैवमभ्युदकदेशो १ कृतावधौ घ . २ काले प्राप्त च ख. ३ चिरन्तनकाला घ. ४ स्वत्वं न भवति ख ५ ऽऽथ हापिते ख. ६ नष्टश्चेत्तदा घ. ७ वृद्धिहीतव्या ख