उपनिधिप्रकरणम् ४ ] मिताक्षरासहिता । तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वापहृतं नष्टं दाप्योऽसौ यस्मिन्नु न पहितं। धनिन एव तद्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः । दैवराजकृते तद्वन्न चेत्तजिह्मका रितम् ॥’ इति ॥ अस्यापवादमाह्व श्रेषश्चेन्मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ।। ६६ ॥ स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजा दिभिश्रेषो नाशः संजातस्तथापि तद्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ ६६ ॥ भोक्तारं प्रति दण्डमाह आजीवन्खेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजीवेलुपभुङ्के व्यवहरति वा प्रयो गादिना लाभार्थमसावुपभोगानुसारेण लाभानुसारेण च दण्ड्यस्तं चोपनिधिं सोद्यमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम्-‘निक्षेपं वृद्धिशेषं च क्रयं विक्रयमेव च । याच्यमानो न चेद्दद्याद्वर्धते पञ्चकं शतम् ॥’ इति । एतच्च भक्षिते द्रष्टव्यम् । उपेक्षाझाननष्ट तु तेनैव विशेषो दर्शितः-“भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन्यूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम् ॥' इति । किंचिश्यूनमेिति चतु अर्थाशहीनम् । उपनिधेर्धमन्याचितादिष्वतिदिशतिः याचितान्वाहेितन्यासनिपेक्षादिष्वयं विधिः ॥ ६७ ॥ विवाहाद्युत्सवेषु वस्रालंकारादि याचित्वानीतं याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेन्याप्यनु • पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो नाम गृहस्वामेिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयमिति । समक्ष तु समर्पणं निक्षेपः । आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्परप्रयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः–“एष एव विधिर्दष्टो याचितान्वाहितादिषु । शिल्पिधूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥’ इति । एतेषु याचितान्वाहितादिष्वयं विधिः उपनिधेर्ये प्रतिदानादिविधिः स एव वेदितव्यः ॥ ६७ ॥ इति उपनिधिप्रकरणम् । १ तद्वद्भवेत्तजिह्म ख. तद्वद्भवेदाजिद्देत्यपि पाठः. २ आजीवत्युप ख आजीवन्फलं भुक्त ग. ३ याच्यमानं ग. ४ पेक्षायां त्वयेदं ख. १७
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति