पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षिप्रकरणम् ५] . मिताक्षरासहिता । १६९ यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यमेवं जानीमो वयमिति स जयी भवति । यस्य पुनर्वादिनः प्रतिज्ञामन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो धुवो निश्चितः । यत्र तु प्रति ज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणा न्तरेण निर्णयः कार्यः । नच राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह-‘स्वभावोक्तं वचस्तेषां ग्राह्य यद्दोषवर्जितम् । उक्त तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुन ॥' इति ॥ ७९ ॥ ‘अन्यथा वादिनो यस्य धुवस्तस्य पराजयः’ इत्यस्यापवादमाह उत्क्तऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । इंद्वगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं बूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्येवादिनो भवेयुः । नन्वेतदनुपपन्नम् । अर्थि प्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमाणान्तरा न्वेषणेऽनवस्थादोषप्रसङ्गात्–“निर्णित्क्त व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न वेत् ॥’ ‘यथा पकेषु धान्येषु निष्फलाः प्रावृषेो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' इति नारदवचनाञ्च । उच्यते । यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते । उतैच–‘यस्य च दुष्ट करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः’ इति । यथा चक्षुरादिकरणदोषानध्यवसा येऽप्यर्थविसंवादात्तजनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि । साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच ।–‘साक्षिभिभषितं वाक्यं सह सभ्यैः परीक्षयेत्’ इति । कात्यायनेनाप्युक्तम् –“यदा शुद्धा क्रिया न्याया तदा तद्वाक्यशोधनम् । शुद्धाञ्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥’ इति । क्रिया साक्षिलक्षणा ‘नार्थसंबन्धिनो नासाः’ इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश्च सत्यार्थ प्रतिपादनेन-सत्येन शुद्धयते वाक्यम्’ इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याञ्च यः शुद्धोऽवगतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरी दृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीतान्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणी १ स्वाभिप्रायेण प्रतिज्ञा घ. २ मिथ्यासाक्षिणो घ. ३ करणं दुष्टं घ. ४ ज्ञानस्य प्रामाण्य ख. ५ वाक्परीक्षेोप घ. ६ शुद्धाच वाक्याद्यः शुद्धो घ. ७ कृताः साक्षिणो ख