१७२ याज्ञवल्क्य स्मृतः । १ दण्डासंभवे ख. २ अनुबन्धो दोषेोत्पादः [ व्यवहाराध्याय सयेत् । यद्वा वेिवासयेत् वाससो विगतो विवासा । विवाससं करोतीति णिचि कृते ‘णाविष्टवत्प्रातिपदिकस्य’ इति टिलोपे रूपम् । नझीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भद्भगृहं कुर्यादित्यर्थः । ब्राह्मण स्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्रतत्रोक्तो दण्ड एव । अभ्यासे त्वर्थदण्डो विवासनं चव । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नझीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणवि शेषापरिज्ञानेऽनभ्यासे चाल्पविषये कैौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादेवदर्थ दण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूत्तं द्रष्टव्यम् । नच ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारी रदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नद्रीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डा भावो वा प्रसज्येत–“चतुर्णामपि वणर्णानां प्रायश्चित्तमकुर्वताम् । शारीरै धन संयुक्तं दण्डं धम्र्य प्रकल्पयेत् ॥’ इति स्मरणाञ्च । तथा मनुः (८॥३७८) सहस्त्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्रजन्’ इति स्मरणात् । यत्तु शङ्खव चनम्–“त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात्-*शारीरस्त्व वरोधादिजवितान्तः प्रकीर्तितः । काकिण्यादिस्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥’ इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्--'राष्ट्रादेनं बहि कुर्यात्समप्रधनमक्षतम्’ इति तत्प्रथमकृतसाहसविषयं न सर्वविपयम् । शारीरस्नु ब्राह्मणस्य न कदाचिद्भवति । (मनुः ८॥३८०)-“न जातु ब्राह्मणं हन्यात्सर्व पापेष्वपि स्थितम्’ इति सामान्येन मनुस्मरणात् । तथा मनुः (८॥३८१)
- न ब्राह्मणवधान्दूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न
चिन्तयेत् ।।' इति ॥ ८१ ॥ जानतः साक्ष्यानङ्गीकारे आह यः साक्ष्यं श्रावितोऽन्येभ्यो निहुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विचासयेत् ।। ८२ ।। अपिच । यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन्नि गदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निहुते नाहमत्र साक्षी भवामीति स विवादपराजये यो दण्डस्तं दण्डमष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थ विवासयेत् । विवासनं च नीकरणगृ हभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण द्रष्टव्यम् । इतरेषां त्वष्टगुणद्रव्यैदण्ड दानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निहुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह काल्यायनः-“उक्त्वान्यथा बुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विता