पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षिप्रकरणम् ५] मिताक्षरासहिता । १७३ इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसर्तव्याः । यथाह नारदः-- न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेत्रैव चान्येन हीयेतैवं समा ८२ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं तदपवादार्थमाह वर्णिनां हि वधो यत्र तत्र साक्ष्यैनृतं वदेत् । यत्र वर्णिनां शूद्रविट्क्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्ध मसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवच नेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णींभावाभ्य नुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसा क्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदो षोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव । तत्र चव यथाशास्त्र प्रायश्चित्तं कर्तव्यम् । तह्यसत्यवचने तूष्णींभावे च शाखाभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह-- तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचननिमेित्तप्रत्यवायपरिहाराय सारस्वतश्चरुद्विजैरे कैकशो निर्वाप्यः कर्तव्य । सरस्वती देवता अस्येति सारस्वतः । अनवस्रावेि तान्तरूष्मपकोदने चरुशब्दः प्रसिद्धः । इहायमभिसन्धिः-साक्षिणामनृत वचनमवचनं च यन्निषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु-*नानृतं वदेत् । अबुवन्विबुवन्वापि नरो भवति किल्बिषी’ इति सामान्येनानृतवचनमवचनं च तिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृत वचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवा यस्य ताद्वैस्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृतवचनावचनयो भूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्यनुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्या आनुषङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृ त्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो , निवृत्याल्पीया नप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्रेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवच्वनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्वावगमे ऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥ इति साक्षिप्रकरणम् १ हीयेचैवं घ. २ साक्ष्यं तत्रानृतं. ३ वदेत् घ. साक्ष्यमनृतम् घ.४ वचनेन. ५ भ्यनुज्ञया ख ६ निषिद्धं ख. ७ स्थ्यादवचनाभ्यनुशा ख. ८ साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमयोः ख