पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ [ व्यवहाराध्याय स्त्रिभिरेव देयं न चतुर्थादिभिरिति नियम्यते । ननु पुत्रपौत्रैत्र्ण देयमित्य विशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अयैवोत्सर्गस्य मत्रारूढर्णविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् । तथाहेि—पत्रलक्षणमभिधाय कालयायनेनाभिहितम्–“एवं कालमतिक्रान्तं पितृणां दाप्यते ऋणम्’ इति । इत्थं पत्रारूढमृणमतिक्रान्तकालमपि पितृणां संबन्धि दाप्यते । अत्र पितृणामिति बहुवचननिर्देशात्कालमतिक्रान्तमिति वचै नाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि–“लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्’ इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्योऽप्यूणलाभोऽस्तीति प्रतीयते । अतचैतदाशङ्का निवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥ अस्यापवादमाह -- आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। ९० ।। संबन्धकेऽपि पेत्रारूढं ऋत्णं त्रिभिरेव देयमिति नियमादृणापाकरणानधिका रेणैध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋत्णं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्युक्तमेव “फलभोग्यो न नश्यती'ति । सत्यम् । तदप्येतस्मिन्न सत्यवादवचने पुरुषत्रयविपयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥ प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसरति देशान्तरस्थे दुर्लख्ये नष्टोन्मृष्टे हृते तथा । भित्रे दग्धेऽथवा छिन्ने लेख्यमन्यतु कारयेत् ॥ ९१ ।। व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्य न्तव्यवहितदेशान्तरस्थे पत्रे दुलेंख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिस्तत् दुर्लख्यं तस्मिन्दुलेंख्ये, नटे काल वशेन, उन्मृष्ट मषीदौर्बल्यादिना मृदितलिप्यक्षरे, ह्यते तँस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पंत्रं द्विर्भवति । एतचार्थि प्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रा नयनायाध्वापेक्षया कालो दातव्य । दुर्देशावस्थिते नष्ट वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः–“लेख्ये देशान्तरन्यस्त शीणे दुर्लि खिते हृते । सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥’ इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिदतव्य । असतां पुनर १ वचनाञ्च चतुर्थादिः ख. २ पत्रारूढे ऋणे ख-ग. ३ कारेणापहरणे ख. ४ तस्करा दिना ग-व. ५ द्वितीयपत्रं भवति ग. ६ नाय दुर्गाध्वापेक्षया ख. ७ दुर्गदेशाबस्थिते ख. ८ दृष्टदशनं घ