पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७ ] . मिताक्षरासहिता । दिवसस्य तु पूर्वाहे कोईशशुद्धिर्विधीयते । रात्रैौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥’ इति पितामहोक्तो विशेषो द्रष्टव्यः ॥ अनुक्तकोलविशेषाणां तण्डुलतसमाषप्रभृतीनां पूर्वाह्न एव प्रदानम् ।–“पूर्वाले सर्वदिव्यानां प्रदानं परिकीर्तितम्’ इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्त पूर्वो भागः पूर्वाहो मध्यमो मध्याह्नः उत्तरोऽपराह्न । तथापरोऽपि कालविशेषी विधिप्रतिषेधमुखेन दर्शित । विधिमुखस्तावत्-‘अझेः शिशिरहेमन्तौ वर्षाचैव प्रकीर्तिताः । शरड्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥ चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च । एते साधारणा मासा दिव्यानामविरोधिनः ॥ कोशस्तु सर्वदा देयस्तुला स्यात्सार्वकालिकी ॥’ इति । कोशग्रहणं सर्वशपथानामुपलक्षणम् । तण्डुलानां पुनर्विशेषानभिधानात्सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि–‘न शीते तोर्येशुद्धिः स्यान्नोष्णकालेऽझिशोधनम् । न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥ नापराहे न सन्ध्यायां न मध्याहे कदाचन । ॥’ इति । ‘न शीते तोयशुद्धिः स्यादित्यत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । ‘नोष्णकालेऽ झिशोधन'मित्यत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर्निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ ९७ ॥ अधिकारिव्यवस्थामाह-- तुलास्त्रीबालवृद्धान्धपडुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। ९८ ।। स्री स्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद्वर्षाजाति विशेषानादरेण । वृद्धोऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थ तुलैवेति नियम्यते । अग्निः फालस्तप्तसमाषश्च क्षत्रियस्य । जलमेव वैश्यस्य । वाशब्दोऽवधारणे । विषस्य यवा उक्तपरिमाणाः ससैव शूद्रस्य शोधनार्थ भवन्ति । ब्राह्मणस्य तुलाविधानात् ‘शूद्रस्य यवाः सस विषस्य वा' इति विषविधानादृन्निर्जलं वेति क्षत्रियवैश्यविषयमुक्तम् । एतदेव स्पष्टीकृतं पितामहेन–‘ब्राह्मणस्य धटो देय क्षत्रियस्य हुताशनः । वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥' इति । यत्तु ख्यादीनां दिव्याभावस्मरणम्–“सन्वतानां भृशातनां व्याधितानां तपस्विनाम् । स्त्रीणां च न भवेद्दिव्यं यदि धर्मस्त्वपेक्षित ॥’ इति, तत् ‘रुच्या वान्यतर कुर्यात्' इति विकल्पनिवृत्यर्थम् । एतदुक्तं भवति-“अवष्टम्भाभियोगेषु स्रयादीनामभियोत्कृत्वेऽभियोज्यानामेव दिव्यं, एतेषामभियोज्यत्वेऽप्यभियोक्तृ णामेव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति काल्या यन्नवचनेन नियम्यते । तथा महापातकादेशङ्काभियोगे ख्यादीनां तुलैवेति एतच वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्यादीनां सर्वदिव्यसम १ कोशसिद्धिः ख.. २ अनुक्तवेला ग-घ . ५ तोयसिद्धिः स्यात् ख १८१ ३ प्रथमो भागः. घ . ४ उत्तमो घ .