पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः वधाने नियामकतयार्थवत् । नच सैर्वकालं स्त्रीणां तुलैवेति –“खीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । धटकोशादिभिस्तासामन्तस्तत्त्वं विचार येत् ॥' इति विषसलिलव्यतिरिक्तधटकोशाझयादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनि यमः---सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥’ इति पितामहरूमरणात् । तस्मात्साधारणे काले बहुदिव्यसमव धाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि-वर्षास्वन्निरेव सर्वेषाम् । हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामप्ति विषयोर्विकल्प । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम् । ‘ब्राह्मणस्य वेिषं विना’ इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाझ्यादि निषेधः-कुष्ठिनां वर्जयेदझिं सलिलं श्वासकासिनाम् । पित्तश्रेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥’ इति तेषामभ्यादिकालेऽपि साधारणं तुलाँयेव दिव्यं भवति । तथा—‘तोयमद्भिर्विषं चैव दातव्यं बलिनां नृणाम्’ इति र्वेचनाडुबै लानामपि सर्वथा विधिप्रतिषेधादृतुकालानतिक्रमेण जातिवयोर्वस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ महाभियोगेष्वेतानी'त्युक्तं तत्राभियोगस्य दपेक्ष महत्वं तदिदानीमाह नासहस्राद्धरेत्फालं न विषं न तुलां तथा । पणसहस्रादर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्-तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्’ इति । अत्र कोशस्या अहणं ‘कोशमल्पेऽपि दापयेत्’ इत्यल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूध्र्वमेव भवन्ति नार्वागित्यर्थ । नन्वर्वागप्यझ्या दीनि पितामहेन दर्शितानि-*सहखे तु धटं दद्यात्सहस्राधे तथायसम् । अर्धस्याधे तु सलिलं तस्याधे तु विषं स्मृतम् ॥’ इति । सत्यम् । तत्रेत्थं व्यवस्था यद्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्भव्यविषयं योगीश्वरवचनमिति । एतश्च वचनद्वयं स्तयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-“दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । खेतेयसाहसयोर्दिव्यं स्वल्पेऽप्यथे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तद् दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दद्याचैव हुताशनम् ॥ षष्टया नाशे जलं देयं चत्वारिंशति वै धटम् । विंशद्दशविनाशे तु कोशापानं विधी यते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः । ततोऽर्धार्धविनाशे हि -९ सार्वकालं ख. २ यथा ख. ३ तुला दिव्यं ग. ४ दुर्बलानामिति सर्वदा घ. ५ प्रतिषेः - धादृते उक्तकालानति ग. ६ वस्थानाश्रितानि ख. ७ यदपेक्ष्य ख-ग. ८ तत्रैवं व्यवस्था घ ९ दद्यादेव ख. १० दद्यात्रिंशद्विनाशे तु गा