पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ [ व्यवहाराध्याय भावयसे यस्माद्धटस्तनाभिधीयसे । त्वं चेत्सि सर्वजन्तूनां पापानेि सुकृतानि च ॥ त्वेवमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुष शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्रातुमर्हसि ।।' इति । शोध्यस्तु ‘त्वं तुले' इत्यादिना पूर्वोत्तेन मत्रेण तुलामामत्रयेत् । अनन्तरं प्राड़िवाकः शिरोगत पत्रकं शोध्य यथास्थानं निवेश्य च धटमारोपयति–“पुनरारोपयेत्तस्मिञ्छि रोचस्थितपत्रकम्’ इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्तथैवा वस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्राभिज्ञः कुर्यातू –ज्योतिर्विब्राह्मण श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥’ इति स्मरणात् । दशगुर्वक्षरोचारणकालः प्राणः । षट्प्राणा विनाडी । उक्तंच

  • दशगुरुवर्णः प्राणः षट् प्राणाः स्याद्विनाडिका तासाम् । षष्टया घटी

घटीनां षैष्टयाहः खाझिभिर्दिनैमसः ॥’ इति । तमिश्च काले शुद्धयशुद्धिपरी क्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी कथयन्ति यथोक्त पितामहेन–‘साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । ज्ञानि शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठाः शुद्धयशुद्धी नृपे तदा ॥' इति । शुछद्यशुद्धिनिर्णयकारणं चोक्तम्-तुलितो यदि वधेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो वा न सै शुद्धो भवेन्नर ॥ इति । यत्तु पितामहवचनम्-‘अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते इति, तत्र यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मतिपूर्वत्वेन च महत्त्वमिति दण्डप्राय श्चित्ताल्पत्वमहत्त्वमवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव–“कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । रजुन्छेदेऽक्षभङ्गे वा तथैवाशुद्धिमादिशेत् ॥’ इति स्मरणात् । कक्षं शिक्यतः लम् । कर्कटौ तुलान्तयोः शिक्याधारावीषद्वक्रावायसकीलकौ कर्कटशङ्गसंनिभौ । अक्षः पादस्तम्भयोरुपरि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरारोपयेत्--'शिक्यादिच्छेदैभङ्गेषु पुनरारोपयेन्नरम्’ इति स्मर णात् । ततश्च–‘ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् ॥ महतीं कीर्तिमाभोति ब्रह्मभूयाय कल्पते ॥ यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा' वायसाद्युपघातनिरासार्थ कपाटादिसहितां शालां कुर्यात्–“विशालामुतां शुभ्रां धटशालां तु कारयेत् । यत्रस्था नोपहन्येत श्धभिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु निवेशयेत् । त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परि चारकरक्षिताम् । मृत्पानीयाभिसंयुक्तामशशून्यां कारयेशृपः ॥’ इति स्मरणात् । 'बीजानि यवत्रीह्यादीनि । १०० ॥ १०१ ॥ १०२ ॥ इति धटविधिः । १ सर्वभूतानां घ. २ त्वमेव सर्व घ. ३ यथानिवेशं च घ. ४ षष्टयाहोरात्र उक्तश्च ख ५ शोध्यशुद्धि ग. ६ सर्वे ध . ७ न विशुद्धो घ . ८ छेदे च भङ्गे च घ . ९ भङ्गे तु ध. १० मुच्छूितां घ