दिव्यप्रकरणम् ७] मिताक्षरासहिता । १९१ .. नस्थितः पूर्वमुक्तमिषुमा नीय जले निमझाङ्गं यदि पश्यति तैदा स शुद्धो भवति । एतदुक्तं भवति-त्रिषु शरेषु मुक्तप्वेको वेगवान्मध्यमशरपात अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति एवं स्थेितयोस्तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालमेव तोरणमूलस्थित ोऽपि दुततरं भैध्यशरपातस्थानं गच्छति । शर ग्राही व तस्मिन्प्राझे दुततरं तोरणमूलं प्राप्यान्तर्जलगातं यदि न पश्यति तदा एतदेव स्पष्टीकृतं पितामहेन–“गन्तुश्चापि व कर्तुश्च समं गमनमज्जनम् । गच्छेत्तोरणमूलातु लक्ष्यस्थानं जवी नर तस्मिन्गते द्विती स्रोऽपि वेगादादाय सायकम् । गच्छेत्तोरणमूलं तु यतः स पुरुषो गत तस्तु शरग्राही न पश्यति यदा जले अन्तर्जलगतं सम्यक्तदा शुद्धं विनिर्दि शेत् ॥’ इति जविनोश्च पुरुषयोर्निर्धारणं कृतं नारदेन–“पञ्चाशतो धाव तो च तत्र नियोक्तव्यौ इति । तोरणं च निमज्जनसमीपस्थाने समे शोध यकर्णप्रमाणेोच्छूितं कार्यम् गत्वा तु तज्जलस्थानं तटे तोरणमुच्छूितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ इति नारदस्मरणात् । शरत्रय वणव चव पुष्पादिभिः प्रथमं संपूजयेत् शरान्संपूजयेत्पूर्वं वैणवं च धनुस्तथा । मङ्ग लैधूपपुष्पैश्च ततः कर्म समाचरेत् इति पतामहवचनात् । धनुषः प्रमाण लक्ष्यस्थानं च नारदेनोक्तम्—‘कूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुविधि भध्यमेन तु चापेन प्रक्षिपेच्च शरत्र यम् । हस्तानां तु शते साधे लक्ष्यं कृत्वा विचक्षण न्यूनाधिके तु दोष इति । अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनु एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुष प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकमित्युक्तं भवति शरांश्चानायसाग्रांस्तु प्रकुर्वीत विशुद्धये वेणुकाण्डभयांश्चैव क्षेदा तु सुदृढं क्षिपेत् इति स्मरणात् । क्षेप्ता क्षत्रियस्त दृत्तिर्वा ब्राह्मणः सोपवासो नियोक्तव्य । यथाह–“क्षेप्ता च क्षत्रियः प्रोक्तस्त अक्रूरहृदयः शान्तः सोपवासस्ततः क्षिपेत् इति । त्रिषु मुत्तेषु मध्यमः शरो ग्राह्य तेषां च प्रोषितानां चव शराणां शास्त्रचोद नात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा इति वचनात् । तत्रापि पतनस्थानादानेतव्यो न सर्प णस्थानात् । ‘शरस्य पतनं ग्राह्य सर्पणं तु विवर्ज येत् । सर्पन्सर्पन्शरो यायाडूरा दूरतरं यत इति वचनात् । वाते च प्रवायति विषमादिदेशे व शरमोक्षो न कर्तव्य इषं न प्रक्षिपेद्विद्वान्मारुते चैाति वायति । विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥ तृणगुल्मलतावद्दीपङ्कपाषाण अमा १ तदा शुद्धो ग-घ. २ स्थितयोस्तयोस्तृतीय ख. ३ मध्यमशर ग. ४ तदा शुद्धिं ख ५ प्रक्षिप्तानां च ग. ६ च प्रवायति गा
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति