दिव्यप्रकरणम् ७] मिताक्षरासहिता विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वेनं नरं पापात्सत्येनास्यामृतं भव ॥ इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् ।–‘द्विजानां संनिधा वेव दक्षिणाभिमुखे स्थिते । उदझुखः प्राङ्मुखो वा वेिषं दद्यात्समाहितः ॥’ इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम् ।–“शङ्गिणो वत्सनाभस्य हिम जस्य विषस्य वा ।' इति पितामहवचनात् । वज्र्यानि च तेनैवोक्तानि–“चा रितानि च जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परि वर्जयेत् ॥’ इति । तथा नारदेनापि–‘भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाडं च विषं येलेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्त । तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराहे न मध्याहे न संध्या यां तु धर्मवित् ।।' इति । कालान्तरे तूक्तप्रमाणादल्पं देयम् ।–“वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता । हेमन्ते सा सप्सयवा शरद्यल्पा ततोऽपि हि ॥ इति स्मरणात् । अल्पेति षड्यवेत्यर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । “हेमन्तशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात्त त्रापि सप्त यवा वेिषं च घृतलुतं देयं नारदवचनात् । ‘विषस्य पलषङ्गागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्धतलुतम् ।।' इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्टो भागो दश माषाः दश यवाश्च भवन्ति । “त्रियवं त्वे ककृष्णलम् । पञ्चकृष्णलको माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्टयधिकं शतं यवाः पलस्य षष्ठो भागस्तस्माद्विशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एक यंवः तेन हीनं विंशतितमं भागं ससयवै घृतलुतं शोध्ये दद्यात् । घृतं च विषा त्रिंशद्रुणं ग्राह्यम् ।–“पूर्वाहे शीतले देशे विषं देयं तु देहिनाम् । घृते नियो जितं श्लक्ष्णं पिष्टं त्रिंशदुणान्वितम् ॥’ इति कात्यायनवचनात् । त्रिंशदुणेन श्रुघृतेनान्वितं विषम् । शोध्यश्च कुहकादिभ्यो रक्षणीयः ।–“त्रिरात्रं पञ्चरात्रं वा पुरुषैः खैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षयेद्दिव्यकारिणम् ॥ ओषधीर्मत्र योगांश्च मणीनथ विषापहाम् । कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान्परीक्षयेत् ॥’ इति पितामहस्मरणात् । तथा विषमपि रैक्षणीयम्–‘शाङ्गं हैमवतं शस्तं गन्धव र्णरसान्वितम् । अकृत्रिममसंमूढममत्रोपहतं चव यत् ॥' इति नारदस्मरणात् । तथा विषे पीते यावत्करतालिकाशतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्स नीयः । यथाह नारदः-“पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः कुर्याचिकित्सितम् ॥’ इति । पितामहेन तु दिनान्तोऽवधि रुक्तोऽल्पमात्राविषयः–‘भक्षिते तु यदा स्वस्थो मूच्छच्छर्दिविवर्जितः । निर्वेि कारो दिनस्यान्ते शुद्ध तमपि निर्दिशेत् ॥’ इति । अत्र च प्राड़िवाकः सोप वासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ठा शोध्यस्य शिरसेि १ तथैवोक्तानि ख. २ यखन परिवर्जयेदिति ग. ३ परीक्षणीयं ग. ४ तथापि घ .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति