[व्यवहाराध्याय स्यैव प्रीतिदानयोग्यत्वनिश्चयात् ॥ यदप्यर्थसाध्येषु वैदिकेषु कर्मस्वनधिकार इति, तत्र तद्विधानबलादेवाधिकारो गम्यते तस्मात्पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम्, तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकु टुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्नयमिति स्थि तम् । स्थावरे तु स्वार्जिते पित्रादिप्रासे च पुत्रादिपारतम्रयमेव स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असंभूय सुतान्सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताश्च ये च गर्भ व्यवस्थिताः । वृत्तिं च तेऽभिकाङ्कन्ति न दानं न च विक्रयः ॥' इत्यादिस्मरणात् । अस्यापवा एकोऽपि स्थावरे कुर्याद्दानाध मनविक्रयम् । आपत्काले कुटुम्बाथै धर्मार्थे च विशेषत इति । अस्यार्थे -अप्राप्तव्यवहारेषु पुत्रेषु पैौत्रेषु वाऽनुज्ञानादावसमर्थेषु भ्रातृषु वा तथाविधे स्वविभक्तष्वपि सकलकुटुम्बव्यापिन्यामापदि तत्पोषणे वावश्यकर्तव्येषु च पितृ श्राद्धादिषु स्थावरस्य दानाधमनविक्रयमेको ऽपि समर्थः कुर्यादिति । यत्तु वच नम्-*अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥' इति तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या विभक्तषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनरेकस्यानीश्वरत्वेन । अतो विभक्तानुमति व्यतिरेकेणापि व्यवहारः सिद्धयत्येवेति व्याख्येयम् । यदपि–‘स्वग्रामज्ञाति मन्तदायादानुमतेन च । ि हेरण्योदकदानेन षङ्गिर्गच्छति मेदिनी इति तत्रापि ग्रामानुमतिः । ‘प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः’ इति स्मर णात् व्यवहारप्रकाशनार्थमेवापेक्ष्यते न पुनग्रमानुमत्या विना व्यवहारासिद्धि सामन्तानुमतिस्तु सीमाविप्रैतिपत्तिनिरासाय । ज्ञातिदायादानुमतेस्तु प्रयोजन मुक्तमेव ‘हिरण्योदकदानेन' इति । स्थावरे विक्रयो नास्ति कुर्यादाधिमनु ज्ञया’ इति स्थावरस्य विक्रयप्रतिषेधात् । ‘भूमेिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तैौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥’ इति दानप्रशंसादर्श नाञ्च । विक्रयेऽपि कर्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्या दित्यर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वेऽपि विशेषं ‘भूर्या पितामहो पात्ता' इत्यत्र वक्ष्याम ११३ इदानीं यत्र काले येन च यथा विभागः कर्तव्यस्तद्दर्शयन्नाह विभागं चेत्पिता कुर्यादिच्छेया विभजेत्सुतान् ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ।। ११४ ।। यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रानात्मनः सका १ विमोक्षणादिषु ख., घ. २ वा अनुशादा अनुशादानादाव घ. ३ अनीशकत्वात् घ ख-ग. ५ इच्छयेति ऐच्छिकविभाग एव विवृत उत्तरार्धेन । इच्छाया संभवति उक्तपक्षद्वयावलम्बनत्वे खातव्यायोगाद्वाक्यभेदापत्तेः, एकसै लक्षं कसैचित्क पर्दिकमन्यसै न किमपीत्यव्यवस्थापत्तेश्च व्य. म
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति