पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ याज्ञवल्क्यस्मृतः। ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिन' इति पक्षद्वयेऽप्यपवादमाह शक्तस्यानीहमानस्य किंचिद्दत्वा पृथक् क्रिया । स्वयमेव द्रव्यार्जनसमर्थस्य नेच्छतोऽपि यत्किंचिदसा रमपि दत्वा पृथक् क्रिया-विभागाः कार्यः पित्रा । तत्पुत्रादीनां दायजिघृक्षा माभूदात ज्येष्ठं वा श्रेष्ठभागेनेति न्यूनाधिको विभागो दर्शित तत्र शास्रोक्तोद्वारा द्विविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थमाह न्यूनाधिकविभक्तानां धम्यैः पितृकृतः स्मृतः ।। ११६ ॥ न्यूनाधिकविभागेन विभक्तानां पुत्राणामसौ न्यूनाधिकविभागो यदि धम्र्य शास्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभि स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्यभिप्राय यथाह नारद याधितः कुपितश्चैव विषयासक्तमानस पिता प्रभु इत ॥ १ १६ इदानीं विभागस्य कालान्तरं कर्तृन्तरं प्रकारनियमं चाह विभजेरन्सुताः पित्रोरूंध्र्वे रिक्थमृणं समम् । पित्रोर्मातापित्रोरूध्र्व यणादिति कालो दर्शित सुता इति कतोर. दर्शिताः । सममिति प्रकारनियमः । सममेवेति रिक्थमृणं च विभजेरन् । ननु ऊध्र्व पितुश्च मातुश्च' (मनुः ९॥१०४) इत्युपक्रम्य (मनुः ९॥१०५) ज्येष्ठ एव तु गृह्णीयात्पिञ्यं धनमशेषत षास्तमुपजीवेयुर्यथैव पितरं तथा इत्युक्त्वोक्तम् (मनुः ९॥११२)–‘ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच यद्वरम् । तँतोऽर्ध मध्यमस्य स्यातुरीयं तु यवीयस इति । सर्वस्माद्रव्य सेमुदायाद्विंशतितमो भागः सर्वद्रव्येभ्यश्च यच्छेष्ठं तज्येष्ठाय दातव्यम् । तदर्ध चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयमशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यमिति मातापित्रोरूध्र्व विभजतामुद्धार विभागो मनुना दर्शितः । तथा (मनुः ९॥११६॥११७)–‘उद्धारेऽनुद्धृते त्वे षामय स्यादशकल्पना । एकाधिकं हरेज्येष्ठः पुत्रोऽध्यर्ध ततोऽनुज यवीयांस इति धर्मो व्यवस्थित इति । ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य सार्ध एको भागः ततोऽनुजानामेकैको विभाग इत्युद्धारव्यतिरेकेणापि विषमो वि भागो दर्शितैः पित्रोरूध्र्व विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दुर्शितो ‘ज्येष्ठ वा श्रेष्ठभागेन' इति । अतः सर्वस्मिन्नपि काले विषमो विभा गोऽस्तीति कॅथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते । सत्यम् । अयं अन्यथा [व्यवहाराध्यायः ३श अशमश , १ निच्छतो यत्किंचेिदसारमपृथक् ख-गं. २ रूध्र्वमृणं घ. ३प्रयाणात् ख-ग. ४ तदध मध्यमस्य, स्यात्तदर्ध तु कनीयस, इति व्य-म-पाठ ५ समुच्चयात् घ. ६ दर्शितो मनुना विभजेरन्निति सममेव नियम्यते घ.