पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता २०३ विषमो विभागः शास्त्रदृष्टस्तथापि लोकवेिद्विष्टत्वान्नानुष्ठेय –‘अस्वग्यै. लोक विद्विष्ट धम्र्यमप्याचरेन्न तु’ इति निषेधात् । यथा-‘महोक्षं वा महाजं वा ोत्रियायोपकल्पयेत्’ इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा ‘मैत्रावरुणीं गां वशामनुवन्ध्यामालभेत’ इति गवालम्भनविधानेऽपि लो कवेिद्विष्टत्वादननुष्ठानम् । उक्तंच –‘यथा नियोगधमों नो नानुवन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ।।' इति । (नियोगमैनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो ‘देवराञ्च सुतोत्पत्तिरित्यादिः स नो भवति) आपस्तम्बोऽपि –‘जीवन्पुत्रेभ्यो दायं विभजेत्समम्’ इति सैमतामुक्त्वा ज्येष्टो दायाद इत्येक’ इति कृत्स्रधनग्रहणं ज्येष्ठस्यैकीयमतेनोपन्यस्य देशविशे षेणें सुवर्ण कृष्णा गावः कृष्णभौमः ज्येष्ठस्य रथः पितुः पैरीभाण्डं च गृहेऽलं कारो भार्याया ज्ञातिधनं चेत्येके' इत्येकीयमतेनैवोद्धारविभागं दर्शयित्वा तच्छा स्रविप्रतिषिद्धमिति निराकृतवान् । तं च शास्रविप्रतिषेधं स्वयमेव दर्शयतिस्मं मनुः-पुत्रेभ्यो दायं विभजेदित्यविशेषेण श्रूयते' इति । तस्माद्विषमो वि भागः शास्रदृष्टोऽपि लोकविरोधाच्छूतिविरोधाच्च नानुष्ठेय इति सममेव विभ जेरन्निति नियम्यते ॥ मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं तत्र मातृधनेऽपवादमाह मातुर्गुहितरः शेषमृणात् मातुर्धनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतणर्णापाकरणावशिष्टं अत श्वर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति –मातृकृतमृणं पुत्रैरेवापाकरणीयं न दुहितृभिः । ऋत्णावशिष्टं तु धर्न दुहितरो गृह्णीयुरिति । युक्तं चैतत् ।–‘पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रिया इति रुयवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो दर्शितः-'स्त्री धनं दुहितृणामप्रत्तानामप्रैतिष्ठितानां च' इति । अस्यार्थः-प्रत्ताऽप्रत्तासम वायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्टितासमवायेऽप्रतिष्ठिता नामेवेति । अप्रतिष्ठिता निर्धनाः ॥ दुहित्रभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह ताभ्य ऋतेऽन्वयः ॥ ११७ ।। ताभ्यो दुहितृभ्यो विना दुहितृणामभावे अंन्वयः पुत्रादिर्गुलीयात् । एतच

  • विभजेरन्सुताः पित्रोरूध्र्वम्’ इत्यनेनैव सिद्धं स्पष्टार्थमुक्तम् ॥ ११७ ॥

१ शाख्दृष्टोऽस्ति ग. २ धनुश्चिह्मान्तर्गतो भागः ख. पुस्तकेऽधिकः३ खमतमुक्त्वा ख घ. ४ विशेषेषु घ. ५ उत्कृष्टोंऽशो ज्येष्ठस्य पितुः. ६ परिभाण्डं ग. ७ विप्रतिषिद्धं घ. ८ कृतणै. ९ दुहित्रन्वय इत्यपरार्क