पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८] मेिताक्षरासहिता विभागप्राप्यभावात् । यद्येन लब्धं तत्तस्यैव नान्यस्येति प्रसिद्धतरम् ‘पूर्वकश्च प्रतिषेधः । अत्र कश्चिदित्थं प्रासिमाह-‘यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिन ॥’ इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेनि व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्रासं प्रतिषिद्धयत इति । तदसत् । नह्यत्र प्राप्तसस्य प्रतिषेधः किंतु सिद्धस्यैवानुवादोऽयम् । लोकसेि द्वस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि अथवा ‘समवेतैस्तु यत्प्रासं सर्वे तत्र समांशिनः ।' इति प्राप्तसस्यापवाद् इति संतुष्यतु भवान् । अतश्च कंवित्पितरि प्रेते' इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामो हमात्रं । अतो मैत्रादिवचनैः पितुः प्रागृध्र्वं वै विभाज्यत्वेनोक्तस्य यत्किंचि त्पितरि प्रेते' इत्यैपवाद इति व्याख्येयम् थान्यदप्यविभाज्यमुक्तं मनुना (९॥२१९)–‘वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥' इति । धृतानामेव वस्राणामविभाज्यत्वं, यद्येन धृतं तत्त स्यैव । पितृध्टतवस्राणि तु पितुरूध्र्व विभजतां श्राद्धभोक्रे दातव्यानि । यथाह बृहस्पतिः वस्रालंकारशय्यादि पितुर्यद्वाहनादिकम् भ्यच्र्य श्राद्धभोक्रे समर्पयेत् ॥' इति । अभिनवानि तु वस्राणि वेिभाज्यान्येव पत्रं वाहनमश्वशिबिकादि तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्रवदेव अश्धादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वमेव । वैषम्येण विभाज्यत्वे ज्येष्ठस्य (मनुः ९॥११९)-‘अजाविकं सैकशफं न जातु विषमं भजेत् । अजाविकं सैकंशर्फ ज्येष्ठस्यैव विधीयते ॥’ इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अध्टतः साधारणो विभाज्य एव । (मनुः ९॥२००) पत्य जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं मानाः पैतन्ति ते ॥’ इति । अलंकारो धृतो भवेदिति "विशेषेणोपादानाद्धृतानां विभाज्यत्वं गम्यते। कृतान्ने तण्डुलमोदकादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच्च विषमं मूल्यद्वारेण न वेिभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्या येण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । स्त्रीषु च संयुक्तास्वविभागः’ इति गौतमस्मरणात् । योगश्च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्तासिाध्यं इष्टं कर्म लक्ष्य त । क्षेमशब्देन लब्धपरिक्षणहेतुभूतं बहिर्वेदिानतडागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यविभाज्यम् यथाह लौगाक्षिः–‘क्षेमं पूर्त योगमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोत्ते शयनासनमेव च ॥’ इति । योगक्षेमशब्देन योगक्षेमकारिणो राज मत्रिपुरोहिताद्य उच्यन्ते इति केचित् । छत्रचामरशस्रोपानत्प्रभृतय इत्यन्ये । । त २० ५

१ निषेधः घ. २ चाविभाज्य घ. ३ इत्यस्यापवाद ख.४ पितृधृतानि ख. ५ तु विषमं इति मनुस्मृतिस्थः पाठः. ६ पतन्त्यधः ग. ७ विशेषस्योपादाना ग. ८ करणं ख.