पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८1. मिताक्षरासहिता । . पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च पितृतो भागकल्पनेत्येत त्स्वाम्ये समेऽपि वाचवनिकम् । “विभागं चेत्पिता कुर्यात्' इत्येतत्स्वार्जितवि षयम् । तथा–“द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता' इत्येतदपि स्वार्जि तविषयम् ।–‘जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः’ इत्येतदपि पारतन्य मातापित्रर्जितद्रव्यविषयम् । तथा–“अनीशास्ते हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया। भागो भवति तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्यधिकारः । पित्रार्जिते न तु निषेधाधिकारः । तत्परतत्रत्वात् । अनुमतिस्तु कर्तव्या । तथाहि-पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनैव, तथापि पतृके पितृपरतत्रत्वात् पितुश्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयो स्वाम्यमविशिष्टमिति निषेधाधिकारोऽस्तीति विशेषः । मनुरपि (९॥२०९) पैतृकं तु पिता द्रव्यमनवासं यदामुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयम र्जितम् ।।' इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुङ्कतं यदि पितो द्धरति तत्स्वार्जितमिव पुत्रैः सार्धमकामः स्वयं न विभजेदिति वदन् पितामहा र्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२१ ॥ विभागोत्तरकालमुत्पन्नास्य पुत्रस्य कथं विभागकल्पनेत्यत आह-- विभक्तषु सुतो जातः सवर्णायां विभागभाक् । विभक्तषु पुत्रेषु पश्चात्सवणयां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर्विभागास्तं भजतीति विभागभाक् । पित्रोरूध्र्व तयोरंशं लभत इत्यर्थः । मातृभार्ग चासत्यां दुहितरि । ‘मातुर्युहितरः शेषम्' इत्युक्त त्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्यालभते । मातृकं तु सर्वमेव । एतदेवं मनुनोक्तम्, (९॥२१६)–‘ऊध्र्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ।–“अनीशः पूर्वजः पित्रोभ्रतुर्भागे विभक्तजः’ इति स्मरणात् । विभक्तयोर्मातापित्रोर्विभागे विभागात्पूर्वमुत्पन्नो न स्वामी विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदर्जितं तत्सर्व विभक्तजस्येव ।–‘पुत्रैः सह विभक्तेन पित्रा यत्स्वयम र्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥’ इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्ध पितुरूध्र्व विभक्तजो विभजेत् । य थाह मनुः (९॥२१६)–‘संसृष्टास्तन वा ये स्युर्विभजेत स तैः सह' इति । पितुरूध्र्च पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह दृश्याद्वा तद्विभागः स्यादायव्ययविशेोधितात् ।। १२२ ।। तस्य पितरि, प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर २० ७ १ पितुः स्वार्जकत्वेन ख. २ कारोप्यस्तीति ख. ३ मंातुर्भागं तु सर्वमेव गं-घ