पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायविभागप्रकरणम् ८] मिताक्षरासहिता । २००९ शाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूध्र्वमंशभागिन्य इति गम्यते । तत्र निजादंशादिति प्रत्येकं परिकल्पितादंशादुद्भट्टत्य चतुर्थाशो दातव्य इत्यमर्थ न भवति, किंतु यज्जातीया कन्या तज्जातीयपुत्रभागाचतुर्थशभागिनी सा कर्त व्या । एतदुक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानं शो भवति तस्य चतुर्थोशस्तस्या भवति । तद्यथा । यदि कस्यचिब्राह्मणस्यैका पली पुत्रचैकः कन्या चैका तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भार्ग चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्व त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमशं कन्यायै दत्त्वा शेषं द्वौ पुत्रैौ विभज्य गृहीतः ॥ अथ त्वेकः पुत्रो द्वे तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागः द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्व पुत्रेो गृह्णातीत्येवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाक न्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्व ब्राह्मणीपुत्रैौ विभज्य गृहीतः ॥ एवं जातिवैषम्ये भ्रातृणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोह नीयम् । नैच ‘निजादंशाद्दत्वांशं तु तुरीयकमिति तुरीयांशाविवक्षया संस्कार मात्रोपयोगि दव्यं दत्वेति व्याख्यानं युक्तम् । मनुवचनविरोधात् (९॥११८) –“स्वेभ्योंऽशेभ्यस्तु कन्याभ्यः प्रदद्युश्रतरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं प तिताः स्युरदित्सवः ॥' इति । अस्यार्थः-ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योंऽशेभ्यः ‘चतुरोंऽशान्हरेद्विप्र’ इत्यादिवक्ष्य माणेभ्यः स्वात्स्वादंशादात्मीयादात्मीयाद्भागाचतुर्थ चतुर्थ भागं दद्युः । नचात्राः त्मीयभागादुद्धृत्य चतुर्थाशो देय इत्युच्यते किंतु स्वजातिविहितादेकस्मादेकस्मा दंशात्पृथक्पृथगेकस्याप्येकूस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्या वैषम्ये च विभागकृप्तिरुतैव । ‘पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणाद वश्यंदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपय गिद्रव्यदानमेव विवक्षितमिति चेन्न । स्मृतिद्वयेऽपि चतुर्थाशदानाविवक्षायाँ प्रमाणाभावाददाने प्रत्यवायश्रवणाचेति ! यदपि कैश्धिदुच्यते । अंशदानवि वक्षायां बह्वभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीतिः तदुक्तरीत्या परिहृतमेव । नह्यत्रात्मीयाद्भागादुद्धृत्य चतुर्थाशस्य दानमुच्यते येन तथा स्यात् । अतोऽस्मत्सहायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरखं न भारुचेः । १ इत्येवमथों ख. इत्यर्थो ग. २ कस्यचिद्राह्मण्येवैका ख. ३ अथतु ग. घ. ४ गृह्णीयात् एवं ग. ५ पित्र्यं धनं घ. ६ गृह्णीयात् . ग. ७ गृह्णीयाताम् ग. ८ नच दत्वांशं तु ग-घ ९ संस्कारोपयोगि ख. १० बहुधनकत्वं घ. ११ वरिष्ठ न भागुरेः ख