पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० याज्ञवल्क्य स्मृतः । [ व्यवहाराध्याय तस्मात्पितुरूध्र्व कन्याप्यंशभागिनी पूर्वं चेद्यत्किंचित्पिता ददाति तदेव लभते विशेषवचनाभावादिति सर्वमनवद्यम् ॥ १ २४ ॥ एवं ‘विभागं चेत्पिता कुर्यादित्यादिना प्रबन्धेन समानजातीयानां भ्रातृणां परस्परं पित्रा सह विभागङ्गकृसिरुक्ता । अधुना भिन्नजातीयानां विभागमाह चतुत्रिबेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजात्रिद्येकभागा विड्जास्तु चेकभागिनः ॥ १२५ ।। तिस्रो वर्णानुपूव्येण’ इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यै केति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः-वर्णशब्देन ब्राह्मणा दिवर्णाः स्त्रिय उच्यते । “संख्यैकवचनाच वीप्सायाम्’ इत्यधिकरणकारकादे कवचनाद्वीप्सायां शस् । अतश्च वणे वणे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्येकभा गाः स्युर्भवेयुः । एतदुक्तं भवति ।–ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुर श्रचतुरो भागॉलभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वेश्यायां द्वेौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णशः इत्यनुवर्तते यथाक्रमं त्रिद्येकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायामेकमेकम् । वेिड्जाः वैश्येनोत्पन्नाः । अत्रापि वर्णश इत्यनुवर्तते यथाक्रमं द्वेकभागिनः । वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायामेक मेकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः । यद्यपि चतुस्त्रिद्धेयकभागा इत्यविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषय मिदं द्रष्टव्यम् । यतः स्मरन्ति-‘न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्य प्येषा पिता दद्यान्मृते विप्रासुतो हरेत् ॥’ इति । प्रतिग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य विशेषप्रतिषेधाच्च । शूद्यां द्विजातिभिजीतो न भूमेर्भागमर्हति’ इति । यदि ऋयाद्विप्रासा भूः क्षत्रि यादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुन (मनुः ९॥१५५)-‘ब्राह्मणक्षत्रियविशां शूदापुत्रो नृ रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥” इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्य विरुद्धम् ॥ १२५ अथ सर्वविभागशेषं किंचिदुच्यते— अन्योन्यापहृतं द्रव्यं विभक्त यतु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ १२६ ।। परस्परापह्मतं समुदायद्रव्यं विभागकाले चैज्ञातं विभक्त पितृधने यदृश्यते तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शास्रमर्यादा । अत्र समैरैशैरिति वदतोद्धार १ वर्णास्रय उच्यन्ते ग.घ. २ त्पन्ना एकैकशश्चतुत्रि ग. ३ प्रतं ग. ४ वा ज्ञातं ख.