पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८] मिताक्षरासहिता। त विभागो निषिद्धः । विभजेरन्निति वदता येन दृश्यते तेनैव न ग्राह्यमिति दर्शि तम् ॥ एव च। वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे दोषाभावपरत्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दार्शतो न कनीयसाम् (मनु ९॥२१३) * यो ज्येष्ठो विनिकुर्वीत लोभाद्रातृन्यवीयस सोऽज्येष्ठः स्याद्भा गश्च नियन्तव्यश्च राजभि इति वचनात् । नेतत् । यत पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्नाणां कनीयसां पुत्रस्थानी यानां दण्डापूपिकनीत्या सुतरां दोषेो दर्शित एव । तथा चाविशेषेणैव दोष श्रूयते । गौतम यो वै भागिनं भागात्रुदते चयते चैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत’ इति । यो भागेिनं भागार्ह भागात्रुदते भागाद् पाकरोति भागं तसै न प्रयच्छति स भागात्रुन्न एनं चोतारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुत द्रव्यमात्मनोऽपि स्वं भवतीति स्वबुद्धया गृह्यमाणं न दोषमावहतीति मतम् तदसत् । स्वबुद्धया गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानु वेशाद्दोषमावहत्येव । यथा मौद्रे चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु अयज्ञिया वै माषाः’ इति निषेधो न प्रविशति, मुद्भावयवबुद्धया गृह्यमाणत्वा दिति पूर्वपक्षिणोक्त मुद्भावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्र विशालेयवेति राद्धान्तिनोक्तम् । तस्माद्वचनतो न्याय साधारणद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ २११ अथ साधारण अद्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ।। १२७ ।। अपुत्रां गुर्वनुज्ञात इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयोर्बजिक्षेत्रिणोरसँौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थ यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थ प्रवृत्तो ययं जनयति स द्विपितृको द्यामुष्यायणो द्वयोरपि रि क्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थ प्रय तते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिन सच न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोत्तं मनुना (९॥५३)–“क्रियाभ्युप गामात्क्षेत्रं बीजार्थ यत्प्रदीयते । तस्येह भागिनैौ दृष्टौ बीजी क्षेत्रिक एव च ॥ इति । क्रियाभ्युपगमादिति अत्रो त्पन्नमपत्यमावयोरुभयोरपि भवत्विति संविदङ्गी कॅरणाद्यत्क्षेत्रं क्षेत्रस्वामिना बीजावपनार्थ बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्प १ यो लोभाद्विनिकुवतेति पाठ २ नोत्तारं ख. ३ श्रयते घ. ४ अपरस्य घ ५ प्रवर्तते ध. ६ पिण्डदाता चेति ग. ७ करणेन यत्क्षेत्रं. ८ बीजवापनार्थ ग या० २१