दायविभागप्रकरणम् ८] मेिताक्षरासहिता । २१३ मवन्नियुक्ताभिगमनाङ्गमिति न देवरस्य भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामेिन एव भवति न देवरस्य । संविदा तूभयोरपि ॥ १२७ ॥ समानासमानजातीयानां पुत्राणां विभागकृसिरुक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस्तेषां स्वरूपं तावदाह -- औरसो धर्मपलीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।। १२८ ।। उरसो जात औरसः पुत्रः सच धर्मपत्रीजः सवर्णा धर्मविवाहोढा धर्मपत्री तस्याँ जात औरसः पुत्रो मुख्यः। तत्समः पुत्रिकासुतः तत्सम औरससमःपुत्रिकायाः सुत पुत्रिकासुतः । अतएवौरससम । यथाह वसिष्ठः–‘अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पु त्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वात् मात्रवयवानां बाहुल्याच । यथाह वसिष्ठः–‘द्वितीयः पुत्रिकैव' इति। द्वितीयः पुत्रः पुत्रिकैवे त्यर्थः । द्यामुष्यायणस्तु जनकस्यौरसंदपकृष्टोऽन्यक्षेत्रेोत्पन्नत्वात् । क्षेत्रजः क्षेत्रजा तस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥१२८॥ गृहे प्रच्छन्न उत्पन्नेो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्य । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णासु मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता । अथोढा तदा वोढुरेव पुत्रः । यथाह मनुः (९॥१७२) पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहै । तं कानीनं वदेन्नान्ना वोडै कन्यासमुद्भवम् ॥' इति ॥ १२९ ॥ अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।। १३० ॥ पैौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां वा पुनभ्र्वा सवर्णादुत्पन्नः । मात्रा भत्रैनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यसै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः (९॥१६८)–‘माता पिता वै दद्यातां यमद्भिः पुत्रमापदि । सद्देशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः । इति । आपद्रहणादनापदि न देयः । दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । ‘न १ स्यौरसान्निकृष्टो घ. २ रहः अप्रकाशम्. ३ वोडुः कन्यापरिणेतु . ४ वाशब्दा न्मात्रभावे पितैव दद्यात् । पित्रभावे मातैव । उभयसत्वे तु उभावपीति मंदनः. ५ सदृशं कुलगुणादिभिर्न जात्येति मेधातिथिः, सदृशं जायेति कुछूक
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति