पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ याज्ञवल्क्यस्मृतः । व्यवहाराध्यायः त्वेवैकं पुत्रं इति वसिष्ठस्मरणात् । तथाऽनेकपुत्रसद्भावेऽपि दद्यात्प्रतिगृह्णीयाद्वा' ज्येष्ठो न देयः । (मनुः ९॥ १०६)–‘ज्येष्ठेन जातमात्रेण पुत्री मानवः भवति इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च ‘पुत्रं अतिप्र हीष्यन्बन्धूनाहूय राजनि चवावेद्य निवेशनमध्ये व्याहृतिभिर्तुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्’ इति वसिष्ठनोक्तः । अदूरबान्धवमित्यत्यन्त देशभाषाविप्रकृष्टस्य प्रतिषेधः । । एवं क्रीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम् समानन्यायत्वात् ॥ १३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गंभे विन्नः सहोढजः ।। १३१ ।। क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् ( ९॥ १७४) क्रीणीयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशो ऽसदृशोऽपि वा ॥” इति, तडुणैः सदृशोऽसदृशो वेति व्याख्येयं न जात्या । ‘स जातीयेष्वयं प्रोक्तस्तनयेषु' इत्युपसंहाररात् । कृत्रिमः स्यात्स्वर्यकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रैलोभेनैव पुत्रीकृतो मातापितृविहीन तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयं दैत्तत्वमुपगतः । सहोढजस्तु गर्ने स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोडुः पुत्र ॥ १३१ ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्येव । मुख्यामुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह पिण्डदोंऽशहरचैषां पूर्वाभावे परः परः ।। १३२ ।। एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोंऽशहरो धनहरो वेदितव्यः । औीरसपौत्रिकेयसमवाये औरसस्यैव धन ग्रहणे प्रासे मनुरपवादमाह (९॥१३४ )–“पुत्रिकायां कृतायां तु यदि पुत्रो ऽनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रिया ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थाशभागित्वमुक्तं वसेि ठेन । तस्मिश्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् । तथा चव कात्यायनः–“उत्पन्ने त्वौरसे पुत्रे चैतुर्थाशहराः सुताः । सवर्णा असवर्णास्तु १.निषेधः घ. २ गर्मे भिन्नः ख. ध. ३ प्रलोभनैः ध. ४ स्वयं दत्त उपनतः ग. ध ५ चतुर्थाश. ग. ध. ६ तृतीयांशहरा इति तु कल्पतरौ पाठ