पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः ‘माताप्यंशं हरेत्’ इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हरतीति मर्त समं तदसत् । अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् स्यान्मतम् । बहुधने जीवनोपयुक्तं तच्च धनं गृह्णाति अल्पे तु पुत्रांशसमांशं गृह्यातीति । न विधि वैषम्यप्रसङ्गात् । तथाहि ‘पल्यः कार्याः समाँशिका माताप्यंशं समं हरेत् इति च बहुधने जीवनमात्रोपयुक्त वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसममंशं प्रतिपादयतीति । यैथा चातुर्मास्येषु द्वैयोः प्रणयन्ति' इत्य त्र पूर्वपक्षिणा सैौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या न वैश्वदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैक देशिना ‘न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतूपात्रं वपन्तीति प्राकरणिकेन वचनेन प्रासाया उत्तरवेद्या प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र वपन्तीति प्रथमोत्तमयोः पर्वणो प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवद् त्तरवेदिं प्रापयतीति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि विधिवैषम्यभयात्प्र थमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवाद पर्यालोचनयोपात्रं वपन्तीति मध्यमयोरेव वरुणप्रधाससाकमेधपर्वणोरुत्तरवेदिं विधत्त इति दर्शितम् । यदपि मतम् (मनुः ९॥१८५)-पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात्, तथा-स्वर्यातस्य ह्यपुत्रस्य भ्रातृ गामि द्रव्यं तदभावे पितरौ हरेयैतां ज्येष्ठा वा पती' इति शङ्कस्मरणाञ्च अॅपुत्रस्य धनं भ्रातृगामीति प्रासं , “भरणं चास्य कुर्वरन्स्त्रीणामाजीवनक्षयात् इत्यादिवचनाच भरणोपयुक्तं धनं पली लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वयते भरणोपयुक्त पली गृह्णाति शेषं च भ्रातरः । यदा तु पलीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्येव गृह्णात्युत भ्रातरोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थ पली दुहितर इत्यारब्धमिति । तदप्यत्र भगवानाचाय न मृष्यति । यतः ( मनुः ९॥ १८५ )-पिता हरेद्पुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पढ्यादिगणे घटत इति व्याच चक्षे । शङ्खवचनमपि संष्टभ्रातृविषयमिति । अपिचाल्पविषयत्वमस्माद्वचना व्प्रकरणाद्वा नावगम्यते । “धनभागुत्तरोत्तरः’ इत्यस्य च पली दुहितर इति वेिष यद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम्, पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति यत्किंचिदेतत् । यतु हारीतवचनम् विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥” इति, तदपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्मादेव १ स्त्रीधनमिति मतं घं. २.तथा ख. ३ द्वयोर्वरुणप्रधांससाकमेधपर्वणोः. ४ तूपांत खं. तूपात्र व. तूपात्रमित्येकस्मिन्प्रचीनपुस्तके. ५ प्रतिपादयति. ग. घ. ६ हरेतां घ ७ अपुत्रधनं घ. ८ श्रवणात् घ. ९ धिकारमात्रप्रदशैनपरं घ. १० संसृष्टविषयं घ