दायविभागप्रकरणम् ८] मिताक्षरासहिता २२१ वेचनादनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतदेवाभिप्रेत्यो तक ङ्गेन ‘ज्येष्टा वा पली’ इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा धनं गृहीत्वाऽन्यां कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति सा सकल तदभावे दुहितरः । दुहितर इति बहुवचनं समानजातीयानामसमान
- पली भर्तु
र्धनहरी या स्याद्व्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा इति । बृहस्पतिरपि–‘भर्तुर्धनहरी पली तां विना दुहिता स्मृता दङ्गात्संभवति पुत्रवहुहिता नृणाम् ॥ तस्मात्पितृधर्न त्वन्यः कथं गृहीत मान इति । तत्र चोढानूढासमवायेऽनूद्वैव गृह्णाति । ‘तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेषरूमरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां सम वाये अॅप्रतिष्ठितैव तदभावे प्रतिष्ठिता स्रीधनं दुहितृणामप्रत्तानामप्रति ष्ठितानां च' इति गौतमवचनस्य पितृधनेऽपि समानत्वात् विषयमिति मन्तव्यम् । तत्समः पुत्रिकासुत इति पुत्रिकायास्तत्सुतस्य चौर ससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दाडुहित्रभावे दैौहित्रो धनभाक् । यथाह विष्णु अपुत्रपैौत्रसंताने दौहित्रा धनमाझुयुः । पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मता इति । मनुरपि (९॥१३६)–“अंकृता वा कृता वाऽपि विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥” इति ॥ तदभावे पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति मातृ शब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसंबन् धेऽपि १ वचनादशङ्कित ख. २ अप्रतिष्ठिता अनपत्या निर्धना वा. ३ स्त्रीपदं पितुरप्युपलक्षक मिति संप्रदायविदः. ४ अकृतेोति । अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्यं, तत्र ‘यद पत्यं भवेदस्यां तन्मम स्यात्स्वधाकरं’ इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सा कृता, अभिसंधिमात्रकृता वाग्व्यवहारेण न कृता अकृता इत्यादि कुछूकः अक्षता वा क्षता वापि ग. ५ व्यवहास्मयूखे-दौहित्राभावे पिता तदभावे माता । तथाच कात्यायन त्रस्याप्यकुलजा पली दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्तिता विष्णुश्च अपुत्रधनं पढ्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भातृपुत्रगामि, तदभावे सकु ल्यगामि, इति । यत्त विज्ञानेश्वर द्वन्द्वापवादके पितरावित्येकशेषे क्रमाप्रतीतावपि तद थैबोधके विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् अपवाद्यद्वन्द्वात्क्रमानुसारात पितुः पुत्रान्त रसाधारण्यात. मातुस्त्वसाधारण्याचादौ मातुस्तदभावे पितुर्धनग्रहणमूचे तदेतद्वचोविरोधा दपास्तम् । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपात एकशेषस्य द्वन्द्ववैकल्पिकत्वेन तदपवादत्वे साधारण्यासाधारण्ययोः क्रमनियामकत्वे मानाभावाच