पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ याज्ञवल्क्यस्मृतेि । [ व्यवहाराध्याय प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाकू तदभावे पितेति गम्यते । किंच पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्यतिशयात “अनन्तरः सपिण्डाद्यस्तस्य तस्य धर्न भवेत्’ इति वचनान्मातुरेव प्रथमं धन ग्रहणं युक्तम् । नच सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपितु समानोदकादि ष्वप्यविशेषेण धनग्रहणे प्रासे प्रत्यासत्तिरेव नियामेिकेत्यस्मादेव वचनादवग म्यत इति । मातापित्रोर्मातुरेव प्रत्यासत्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे पिता धनभाकू । पित्रभावे भ्रातरो धनभाजः । तथा च मनुः ( ९॥१८५)–“पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा’ इति । यत्पुनर्धारेश्वरेणोक्तम् (९॥२१७) अनपत्यस्य पुत्रस्य माता दायमवामुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति मनुवचनाज्जीवत्यपि पितरि मातरि वृत्तायां पितुर्माता पिता मही धनं हरेन्न पिता । यतः पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्वेव गच्छतीति पितामहेयव गृह्णातीति । तद् याचवाय नानुमन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् *चतुखिये कभागाः स्युः' (मनुः ९॥१८९) इत्यादिनेति । यत्पुन –“अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुस्मरणं तवृपाभिप्रायं नतु पुत्राभिप्रायम् । भ्रातृष्वेपि सोदराः प्रथमं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । “अनन्तर सपिण्डाद्यस्तस्य तस्य धनं भवेत्’ इति स्मरणात् । ोदराणामभावे भिन्नोदरा धनभाज तृणामप्यभावे तत्पुत्राः पितृ क्रमेण धनभाज । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः । भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् । यदा त्वत्पुत्रे भ्रातरि स्वयते तद्भातृणामवि शेषेण धनसंबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्राता मृतस्तदा तत्पुत्राणां पितृतोऽधिकारे प्रासे तेषां भ्रातृणां च विभज्य धनग्रहणे पितृतो भागकल्पनेति युक्तम् । भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डा समानोदकाश्च । तत्र पितामही प्रथमं धनभाकू । (मनुः ९॥२१७ )–“मात यैपि च वृत्तायां पितुर्माता धनं हरेत्’ इति मात्रनन्तरं पितामह्या धनग्रहणे प्रासे पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् ‘पितुर्माता धनं हरेत्’ इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतान १ अत्र केचन-सोदराभावे भिन्नेोदरास्तदभावे सोदरसुता इत्याहुस्तन्न । २ भ्रातृपदस्य सोदरे शक्त्या भिन्नोदरे च गौण्या वृतिद्वयविरोधात् । केचित्तु भ्रातर इत्यत्र ‘भ्रातृपुत्रौ स्वस् दुहितृभ्याम्' इत्यनुशासनात् भ्रातरश्च स्वसारश्च भ्रातर इति विरूपकैकशेषेण भ्रात्रभावे भगिन्य इत्याहुस्तन्न । विरूपैकशेषे मानाभावात.