पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागप्रकरणम् ८ ] मिताक्षरासहिता । २२३ नन्तरं पितामही गृह्यातीलयविशेधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सैपिण्डा पितामहादयो धनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धन भाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येव माससमात्समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समा नोदकानां धनसंबन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनाम ज्ञानावधिका वा । यथाऽऽह बृहन्मनु –सपिण्डता तु पुरुषे ससमे विनिव र्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनास्रोः स्मृतेरेरके तत्परं गोत्रमुच्यते ।।' इति गोत्रजाभावे बन्धवो धनभाजः । बन्धवश्च त्रिविधाः आत्मबन्धवः पितृ बैन्धवो मातृबन्धवश्चेति । यथोक्तम्—‘आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसु त्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवा पितुः पितृष्वसुः पुत्रा पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृ ष्वसुः पुत्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥ बन्धवो धनभाजस्तदभावे पितृबन्धवस्त दुभावे मातृबन्धव इति क्रो वेदितैव्यः । बन्धूनामभावे आचार्यः । तदभावे शिष्यः । पुत्राभावे यः प्रत्यासन्नः सपिण्डस्तद्भावे आचार्यः । आचार्याभा वेऽन्तेवासीत्यापस्तम्बस्मरणात् ॥ शिष्याभावे सब्रह्मचारी धनभाक् । यन सहकस्मादाचायोदुपनयनाध्य यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णीयात् । “श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्’ इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाऽऽह मनुः (९॥१८८)-“सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिन । त्रैविद्याः शुचयो दान्तास्तथा धर्मौ न हीयते ॥ इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृहीयात् (९॥ १८९)–“अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुवचनात् । नारदेनाप्युक्तम् १ तदभावे भगिनी “अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्’ इति मनूक्तः । ‘बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥” इति बृह स्पत्युक्तः । तस्या अपि भ्रातृगोत्रोत्पन्नत्वेन गोत्रजत्वाविशेषाञ्च । सगोत्रता परं नास्ति नच सात्र धनग्रहणप्रयोजकत्वेनोक्ता इति व्यवहारमयूखः. २ मनुस्मृतौ ‘तदभावे सकुल्यः स्यादा चार्यः शिष्य एव वा' इत्यत्र सकुल्यशब्देन सगोत्रसमानोदकानां मातुलादीनां बन्धुत्रयस्य ग्रहणम् । योगीश्वरवचनेऽपि बन्धुपदेन मातुललक्षणमन्यथा मातुलादीनामग्रहणमेव प्रसज्ये तेति तत्पुत्राणां धनाधिकारस्ततः प्रत्यासन्नानां तेषां स नेति महदौचित्यमापद्येत. ३ ननु पल्यादीनां सर्वेषां मृतनिरूपितानामेव धनभाक्त्वं बान्धवानामपि तथैवास्तु अतः कथं पितु मर्मातुश्च बान्धवानां धनसंबन्धः, “पितुः पितृष्वसुः पुत्राः’ इत्यादि तु संज्ञासंज्ञिसंबन्धमात्रार्थ न धनसंबन्धार्थमिति चेदुच्यते । विनाप्येतद्वचनं पितृमातुलपितृव्यादिष्विव पितृमातृबान्धवे ष्वपि योगेनैव तच्छब्दप्रवृत्तिसंभवे संज्ञासंशिसंबन्धबोधनानर्थक्यापत्तः। तेन बन्धूनुद्दिश्य धन संबन्धविधौ पितृमातृबन्धुप्रापणेनैव वचोऽर्थवत्ता। बन्धूद्देशेनाशौचादिविधावप्येवमेवेति दिक् या० २२