पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० याज्ञवल्क्यस्मृतः। [व्यवहाराध्यायः जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ।।' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगि न्यश्च समं भजेरन्निति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगि न्यश्च समं भजेरन्निति संबन्धः । न पुनः सहोदरा भगिन्यश्ध संभूय भजेरन्निति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीते । विभागकर्तृत्वान्वयेनापि चशब्दो पपत्तेः । यथा देवदत्तः कृषिं कुर्याद्यज्ञदत्तश्चेति । समग्रहणमुद्धारविभागनि वृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपलीदुहिता गृह्णाति । तदभावे तदपत्यम् । यथाऽऽहः मनुः (९॥१९८)-*स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्ध रत्कन्या तदपत्यस्य वा भवेत् ।।' इति । ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामही घनहारिणः । “रिक्थभाज ऋत्णं प्रतिकुर्युः’ इति गौतमस्मरणात । ‘पुत्रपौ त्रेत्रणे देयम्’ इति पौत्राणामपि पितामहणापाकरणेऽधिकारात् । पौत्राणाम रयभावे पूर्वोक्ता भत्रौद्यो बान्धवा धनहारिणः ॥ १४५ ॥ स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह दत्त्वा कन्या हरन्दण्ड्यो व्ययं दद्याच सोदयम् । कन्यां वाचा दत्वापहरन्द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतचा पहारकारणाभावे । सति तु करणे ‘दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आबजेत् इत्यपहाराभ्यनुज्ञानान्न दण्ड्यः । यच वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थ धनं व्ययीकृतं तत्सर्व सोदयं सवृद्धिकं कन्या दाता वराय दद्यात् ॥ अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते तदा किं कर्तव्यमित्यत आह मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ।। १४६ ।। यदि वाग्दत्ता मृता यत्पूर्वमङ्गुलीयकादि शुल्कं चरेण दत्तं तद्वर आद दीत । परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययस्तं परिशोध्य विगणय्यावशिष्टमाददीत । यत्तु कन्यायै मातामहादिभिर्दत्तं शिरोभूषणादिकं वा क्रमेयातं तत्सहोदरा भ्रातरो गृह्णीयुः ।–*रिक्थं मृतायाः कन्याया गृह्णीयु सोदरास्तदभावे मातुस्तदभावे पितुरिति बौधायनस्मरणात् ॥ १४६ ॥ मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि ख्रिया धनग्रहणे ऋचिद्भर्तुरभ्यनुज्ञामाह दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ।। १४७ ॥ १ कर्तृत्वेनान्वयेनापि घ. २ पितामह्यणर्णापाकरणाधिकारात् ख. ३ त्रियेत तदा ग. घ . ४ -शुल्कं वा वरेण ख. ५ क्रमागतं ख. ६ भत्र घ.