पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिपालविवादप्र० १०] मिताक्षरासहिता । २३७ ल्पबाधो बहूदकत्वेन कैल्याणकारकश्चेतो बहूदको नैव निवारणीयः । कूपग्र हणं च वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ सैर्वक्षेत्रवर्तितया बहु बाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति । सेतोश्ध द्वैविध्यमुक्त नारदेन-'सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥’ इति । यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तर्द्धश्यं नृपं वा पृथैव संस्कुर्यात् । यथाऽऽह नारदः-“पूर्वप्रवृत्तमुत्सन्नमपृष्टा स्वा मिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वाऽपि मानवे । राजानमामन्य ततः कुर्यात्सेतुप्रवर्तनम् ॥' इति १५६ क्षेत्रस्वामिनं प्रत्युपदिष्टम् । इदानीं सेतोः प्रवर्तयितारं प्रत्याह खामिने योऽनिवेछैव क्षेत्रे सेतुं प्रवर्तयेत् । उत्पन्न खामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ क्षेत्रस्वामिनमनयुपगम्य तदभावे राजानं वा यः. परक्षेत्रे सेतुं प्रवर्तयत्यसौ फलभाङ् न भवत्यपितु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे राज्ञ । तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वाऽनुज्ञाप्यैव पर क्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थ ॥ १५७ ॥ क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्या कचिद्विध्यन्तरमाह फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ।। यः पुनः क्षेत्रस्वामिपार्श्व अहमिदं क्षेत्रं कृषामीत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्षयति तच क्षेत्रं यद्यपि फालाहतं ईषद्धलेन विदारितं न सम्यग्बी जावापार्ह तथाऽपि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्त्यर्ह सामन्तादिकल्पितं तावदसौ कर्षको दापनीयः । तच क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥ इति सीमाविवादप्रकरणम् । अथ खामिपालविवादप्रकरणम् १० व्यवहारपदानां परस्परहेतुहेतुमद्भावाभावात् “तेषामाद्यमृणादानम्’ इत्यादि पाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते -- माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदधैं तु गौस्तदर्धमजाविकम् ॥ १५९ ।। १ बहूपकारको नैव घ २ समग्रक्षेत्र घ. ३ भ्युपगमय्य घ. ४ हेतुमद्भावात् घ.