अस्वामिविक्रयग्र० ११] मिताक्षरासहिता । तीनां च पुष्पाणि स्ववदाददीत फलानि चापरिधृतानाम्’ इति गौतमस्मरणात् । एतच परिगृहीतविषयम् । अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहादेव स्वस्वसिद्धेः । तथा तेनैवोक्तम्--'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इति । यत्पुनरुक्तम्-तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृह्णानो हस्तच्छेदनमर्हति ॥’ इति, तद्विजव्यतिरिक्तविषयमना पद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ १६६ ।। इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ।। १६७ ।। ग्रामक्षेत्रयोरन्तरै धनुःशतपरिमितै परिणाह । सर्वतोदिशमनुससस्य कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं पेरिणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् ॥ १६७ ॥ इति खामिपालविवादप्रकरणम् । २४१ अथास्वामिविक्रयप्रकरणम् ११ संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनो क्तम्--'निक्षितं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयते समक्ष थत्स ज्ञेयोऽस्वामिविक्रय ॥' इति, तत्र किमित्याह स्वं लभेतान्यविक्रीतं क्रतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ।। १६८ ।। स्वमात्मसंबन्धि द्रव्यं न्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयो रुपलक्षणार्थम् । अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम्-“अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत्’ इति । क्रेतुः पुनरप्रकाशिते गोपिते यये दोषो भवति । तथा हीनात्तत्तद्रव्यागमोपायहीनाद्वहसि चैकान्ते संभाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस्तत्र च ऋकता तस्करो भवति । तस्करवद्दण्डादिभाग्भवतीत्यर्थः । यथोक्तम्—‘द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदामुयात् । प्रकाशे क्रयत शुद्धिः केतुः स्तेयं रह:क्रयात् ॥' इति ॥ १६८ ॥ १ दिक्ष्वनुप्तसस्यं ध. २ परीणाहः ख. ३ अस्वामित्रक्रीतेन ख. ४ क्रये घ.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति