पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवक्ल्यस्मृतिः । | व्यवहारराध्यायः स्वाम्यभियुक्तन क्रेत्रा किं कर्तव्यूमित्यत आह नष्टापहृतमासाद्य हतोरं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा खयमर्पयेत् ।। १६९ ॥ नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारै नरं ग्राहयेत् चौरो द्वरणकादिभिः आत्मविशुद्धयर्थ राजदण्डाप्राप्त्यर्थे च । अथावेिदितदेशान्तरं गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्तर्विक्रेतारमदर्शयित्वैव स्वयमेव तद्वनं नाष्टिकस्य समर्पयेत् । तावतैवासैौ शुद्धो भवतीति श्रीकराचार्येण व्या ख्यातं तदिदमनुपपन्नम् । ‘विक्रेतुर्दर्शनाच्छुद्धिः’ इत्यनेन पौनरुक्त्यप्रसङ्गात् । अतो न्यथा व्याख्यायते । नष्टापहृतमिति नाष्टिकं प्रत्ययमुपदेशः । नष्टमपहृतं वाऽऽत्मी यद्रव्यमासाद्य केतुर्हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारै स्थानपालादिभिग्रहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसंनिधाने तद्विज्ञापनकालात्प्राक पलायनशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ॥ १६९ ।। ग्राहिते हर्तरि किं कर्तव्यमेित्यत आह-- विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाश्मोति तस्माद्यस्तस्य विक्रयी ।। १७० ।। यद्यसैौ गृहीतः क्रेता न मयेदमपहृतमन्यसकशात्क्रीतमिति वक्ति तदा तस्य क्रेतुर्विक्रेतुर्दर्शनमात्रेण शुद्धिर्भवति । न पुनरसावभियोज्य । किंतु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाऽऽह बृहस्पतिः–“मूले समाहृते क्रेता नाभियोज्यः ' कथंचन । मूलेन सह वादस्तु नाष्टिकस्य विधी यते ।' इति । तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापह्मतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिक स्वीयं द्रव्यमवाश्मोति, नृपश्चापराधानुरूपं दण्डं, क्रेता च मूल्यमवामोति । अथासै देशान्तरगतस्तदा योजनसंख्थया आनयनाथै कालो देयः ।–‘प्रकाशं वा ऋक्रयं कुर्यान्मूलं वापि समर्पयेत् । मूलानयनकालश्च देयस्तत्राध्वसंख्यया ॥ इति' स्मरणात् ॥ अथाविज्ञातदेशतया मूलमाहर्तु न शक्रोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।–“असमाहार्यमूलस्तु क्रयमेव विशोधयेत्’ इति वचनात् ।। ‘यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति तदा स एव दण्डभाग्भवति ॥' इति ।–“अनुपस्थापयन्मूलं क्रय वाऽप्यविशोधयन् । यथाऽभियोगं धनिने धनं दाप्यो दुमं च सः’ ॥ इति मनुस्मरणात् ॥ १७० ॥ स्वं लभेतान्यविक्रीतमित्युक्तं तलिप्सुना किं कर्तव्यमित्यत आह अंगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ।। १७१ ।। १ विक्रेतारं प्राहयेत् ग. २ तद्विशापकात्प्राक् घ