पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] मिताक्षरासहिता आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमेिदं द्रव्यं तचैवं नष्टमपहृतं वेत्यपि' भाव्यं साधनीयं तत्स्वामिना अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टमात्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थ मूल्यलाभाय विक्रेतारमानयेत् । अथानेतुं न शक्रोति तदात्मदोषपरिहाराय क्रयं शोधैयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ तस्करस्य प्रच्छादक प्रत्याह हृतं प्रणष्टं यो द्रव्यं परहस्तादवाणुयात् अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १७२ ॥ हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमपहृतमिति नृपस्याः निवेचैव दर्पौदिना यो गृह्णाति असौ षडुत्तरान्नवतिं पणान्दण्डनीय प्रच्छादकत्वेन दुष्टत्वात् ॥ १७२ राजपुरुषानीतं प्रत्याह १७३ शाल्ककैः स्यान्नपालवा नष्टापहृतमाहृतम् । अवॉक्संवत्सरात्खामी हरेत परतो नृपः ॥ १७३ । यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतं द्रव्यं राजपार्श्व प्रत्या नीतं तदा संवत्सरादर्वाकू प्राप्सश्चत् संवत्सराद्राजा गृह्णीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेघूद्रोष्य यावत्सं वत्सरं राज्ञा रक्षणीयम् । यथाऽऽह गीतम प्रबूयुर्विख्यातं संवत्सरं राज्ञा रक्ष्यम्’ इति । यत्पुनर्मनुना विध्यन्तरमु क्तम् (८ ।३० )-‘प्रणष्टस्वामिकं द्रव्यं राजा श्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् इति तच्छुतवृत्तसंपन्नब्राह्मणविषयम् रक्षणनिमित्तषङ्गागादिग्रहणं च तेनैवोक्तम् (मनुः ८॥३३)–‘आददीता प्रषङ्गार्ग प्रणष्टाधिगतानृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥’ इति । तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः । अपचितं २४३ १ वेति भाव्यं घ मनूक्तषङ्गागादिग्रहणस्य द्रव्यविशेषेऽपवादमाह पणानेकशफे दद्याचतुरः पञ्च मानुषे । मैहिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ।। १७४ ।। एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान्द द्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवां रक्षणनिमित्तं २ साधयित्वा ग ३ माहिषोष्ट ग