पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रीतानुशयप्र० १३ ] मिताक्षरासहिता । २४७० लादि । स्त्री दासी । दोह्य महिष्यादि । पुमान् दासः । एषां बीजादीनां यथा क्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यसम्य क्त्वबुद्धयानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिर्न पुनरूध्र्वमेित्युपदे शप्रयोजनम् । यत्तु मनुवचनम् (८॥२२२)-‘क्रीत्वा विक्रीय वा किंचिद्यस्ये हानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याचैवाददीत च ॥” इति, तदुक्त लोहादिव्यतिरिक्तोपैभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्व चैत दपरीक्षितक्रीतविषयम् । यत्पुनः पैरीक्ष्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्विक्रेत्रे न प्रत्यर्पणीयम् । तदुक्तम्-क्रेता पण्यं परीक्षेत प्राकू स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥’ इति ॥ १७७ ॥ दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेरपि परीक्षामाह अग्रौ सुवर्णमक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताग्रे पञ्च दशायसि ।। १७८ ।। वौ प्रताप्यमानं सुवर्ण न क्षीयते । अतः कटकादिनिर्माणार्थ यावत्स्वर्णका रहते प्रक्षिसं तावतुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दृण्ड्याश्च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीखे च । शते इत्यनुवर्तते । त्रपुणि सीसे व शतपले प्रताथ्यमानेऽष्टौ पलानि क्षीयन्ते । तात्रे पञ्चदशायसेि तात्रे शतपले पञ्चपलानि । अयसेि दृशपलानि क्षीयन्ते । अत्रापेि शत इत्येव । कांस्यस्य तु त्रपुताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः । ततोऽधिकक्षयकारिणः शिल्पिनो दण्डयाः ॥ १७८ ॥ ऋचित्कम्बलादौ वृद्धिमाह शते दशपला वृद्धिरौणें कापससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ।। १७९ ।। स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर्वेदि तव्या । एवं कापससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनि र्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर्वेदितव्या । एतचाप्रक्षालितवासोविषयम् ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह-- कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिश्च कौशेये वैाल्कलेषु च ।। १८० ।। कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रे सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र वारादौ रोमाणि बध्यन्ते स रोमैबद्ध १ माहिष्यादि ख. २ पभोगविनश्धर ख. ३ परीक्षितं घ. ४ तर्दशानुसारेण ध ५ इतोऽधिक ख. ६ वल्कलेषु . ७ चित्रं सूत्रैः ख. ८ प्रान्तादौ ग. ९ रोमबन्धः घ. या० २४