पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभ्युपेत्याशुश्रूषाप्र० १४.] मिताक्षरासहिता । २४९ गृहंजातस्तथा क्रीतो लब्धो दायादुपागत । अनाकालभृतस्तद्वदाहितः खा मिना च यः ॥ मोक्षितो महतश्चर्णाद्युद्धप्राप्तः पणे जितः । तवाहमित्युपगत प्रव्रज्यावसितः कृतः । भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मन शाखे दासाः पञ्चदश स्मृताः ॥' गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद्भक्षित । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वमभ्युपगातो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहमित्युपगातः तवाहं दास इति स्वयं संप्रतिपन्न प्रत्रज्यातश्च्युतः । कृतः एतावत्कालं त्वद्दास इत्यभ्युपगमित । भक्तदासः सर्व कालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्ट । वडवाहृतः वडवा गृहृदासी तयाहृतः तलोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीतेऽसावा त्मविक्रेतेत्येवं पञ्चदशा प्रकारा ॥ यतु मनुना (८॥४१५)-‘ध्वजाह्मती भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च ससैते दासयोनयः ॥’ इति सविधत्वमुक्तं तत्तषां दासत्वप्रतिपैदनाथै नतु परिसंख्यार्थम् । तत्रैषां शि ष्यान्तेवासेिभूतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्’ इत्यादिना । अधिकर्मकृद्रत कानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते ।–‘यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' इत्यादिना ॥ मासान्तेवासेिनोस्तु धर्मविशेषं वक्तुमाह बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ॥ १८२ ।। बलात् बलावष्टम्भेन यो दासीकृतः । यश्चैरैरपहृत्य विक्रीतः । अपिशब्दा दाहितो दत्तश्च स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयेितव्यः । उक्तं च नारदेन–“चैौरापह्मतविक्रीता ये च दासीकृता बलात् । राज्ञा मोच यितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति । चौरव्याघ्राद्यवरुद्धस्य स्वामिन प्राणान्यः प्रददाति रक्षत्यसावपि मोर्चयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् ।–‘यो वैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात । दास त्वात्स विमुच्येत पुत्रभागं लभेत च ॥’ इति नारदस्मरणात् ॥ भक्तदासा दीनां प्रातिस्विकमपि मोक्षकरणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्या गाद्दासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्वा मुच्येते । आहितणै दासँौ तु तन्निष्क्रयाद्यद्दृहीत्वा स्वामिना आहितो यञ्च दत्त्वा धनिनोत्तमर्णान्मो चितस्तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणान्मुच्यते । नारदेन विशेषोऽप्युक्तः १ भृतश्चैव घ. २ मोचितो घ. ३ प्रतिपादनपरम् ख. ४ मोचनीयः घ.