पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ याज्ञवल्क्यस्मृतिः । . [व्यवहाराध्यायः यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव भृत्यं कर्म कार यति स तस्माद्वाणिज्यपशुसस्यलक्षणात्कर्मणो यछब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह देशं कालं च योऽतीयाछाभं कुर्याच योऽन्यथा । तत्र स्यात्खामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५ ।। यस्तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्दैपदिनो छङ्कयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानं प्रति स्वामिनश्छन्द इच्छा भवेत् यावदिच्छति तावद्दद्यान्न पुनः सर्वामेव भृतिमित्यर्थ । यदा पुनर्देशकालाभिज्ञतयाऽधिको लाभः कृतस्तदा पूर्वपरिच्छन्नाय भृतेरधिकमपि धनं स्वामिना भृत्याय दात अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह-- यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ।। यद्वा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेब्द्याध्याद्यभिभवादुभाभ्यामपिशब्दाद्धहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति तावत्तस्मै । तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । नचावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति मंन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं ताव दुभाभ्यां देयं न पुनः प्रत्येकं कृत्स्र वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् १९६ आयुधीयभावाहकौ प्रत्याह अराजदैविकं नष्ट भाण्डं दाप्यस्तु वाहकः । प्रस्थानविन्नकृचैव प्रदाप्यो द्विगुणां भृतिम् । १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तद्यदि प्रज्ञाहीनतया वाह केन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः । तदाह नारदः भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येतु दैवराजकृता इते ॥' इति । यः पुनर्विवाहाद्यर्थ मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्था नौपयिकं कर्म प्रागङ्गीकृत्य तदानीं न करिष्यामीति प्रस्थानविघ्नमाचरति तदासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥ प्रक्रान्ते सप्तमं भागं चतुर्थ पथि संलयजन् । भृतिमर्धपथे सर्वा प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥ १ मृत्यकर्म ग. ध. २ दर्पद्दिनमुछङ्कयेत् घ. ३ भृतेरपि किमपि धनमधिकं ख .