साहसप्रकरणम्.२० ] मिताक्षरासहिता । प्ररोहा अङ्करास्तद्वन्यः शाखाः प्ररोहिण्य याश्छिन्नाः पुनरुसाः प्रतिकाण्डं : प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखेिनस्तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने समूलवृक्षच्छेदने च यथा क्रमं विंशतिर्पणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादत्तरोत्तरो दण्डो द्विगुण । एतदुक्तं भवति । विंशतिर्पणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्वपराधेषु भवन्तीति । अप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामा ब्रादीनां पूर्वोत्क्तषु स्थानेषु पूर्वोक्ता एच दण्डाः अनुपजीव्याप्ररोहिशाखिषु पुनर्तृक्षेषु कल्प्या ॥ २२७ ॥ वृक्षविशेषं प्रत्याह चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातदुमाणां द्विगुणो दमो क्षे च विश्रुते ।। २२८ ।। चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २८ ॥ गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषुत्क्तषु कर्तने ।। २२९ ।। गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः । गुच्छा अवीरूपाः असरल प्रायाः कुरण्टकाद्यः । क्षुपाः करवीरादयः सरलप्राया । लता दीर्घयायेिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सैरलयायेिन्यः सारिवा प्रभृतयः । ओोषध्यः फलपाकावसानाः शालेिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥ इति दण्डपारुष्यप्रकरणम् । अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याविख्यासुस्तलक्षणं तावदाह सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण . परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः । प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति । राजदण्डं जनक्रोशं चोलङ्घय राजपुरुषे तरजनसमक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहस १ पणाद्दण्डादारभ्य घ. २ वृक्षेऽथ विश्रुते ख. ३ शिखायायिन्यः इति पाठः. ४ यथेष्ट विनियोग ग-घ. ५ त्वाद्विशेषेण ग
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति