साहसप्रकरणम् २० ] मिताक्षरासहिता । २६९ सान्दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासक्ति विशेषेण दैण्डानां लघुगुरुभावः कल्पनीयः ॥ २४२ ॥ अबध्यं यश्च बभूवातेि बद्धं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ।। २४३ ।। यः पुनर्बन्धनानर्हमनपराधिनं राजाज्ञया विना बझाति । यश्च बद्धं व्यवहा रार्थमाहूतं अनिवृत्तव्यवहारं चोत्सृजत्यसौ उत्तमसाहसं दाप्यः ॥ २४३ ॥ मानेन तुलया वापि योंऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२४४॥ यः पुनर्वणिकू व्रीहिकापसादेः पण्यस्यामष्टममंशं कूटमानेन कूटतुलया वा अन्यथाऽपहरति असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्तृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्पये ॥ २४ ॥ भेषजखेहलवणगन्धधान्यगुडादिषु पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ।। २४५ ।। भेषजमैौषधद्रव्यम् । स्त्रेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यमुशी रादि । धान्यगुडौ प्रसिद्वैौ । आदिशब्दाद्धिङ्खमरीचादि । एतेष्वसारद्रव्यं विक्र यार्थ मिश्रयतः षोडशपणो दण्डः ॥ २४५ ॥ मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससम् । अजातैौ जातिकरणे विक्रेयाष्टगुणो दमः ।। २४६ ।। किंच । न विद्यते बहुमूल्या जातिर्यस्मिन्स्टचर्मादिके तदजाति तस्मिन् जाति करणे विक्रयार्थ गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मलिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । माजरचर्मणि वणेत्कर्षांपादनेन व्याघ्रचर्मेति स्फटिकमणेौ वर्णान्तरकरणेन पद्मराग इति । कार्पसिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति । कालायसे वर्णोत्कर्षाधानेन रजतमिति । बिल्वकाष्ठ चन्दनामोदसंचारेण चन्दनमिति । कङ्गोले त्वगाख्यं लवङ्गमिति । कार्पासिके वाससि गुणोत्कर्षाधानेन कौशेयमिति । विक्रेयस्यापा द्वितसादृश्यमृचर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २४६ ॥ सैमुद्भपरिवर्त च सारभाण्डं च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ।। २४७ ।। भिन्ने पणे च पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो. दण्डो मूल्यवृद्धौ च वृद्धिमान् ।। २४८ ।। मुंद्धं पिधानं मुद्रेन सह वर्तत , इति संमुद्रं करण्डकं परिवर्तनं व्यत्यासः । "१ दण्डस्य. .२ काष्णयसे चव घ. ३ समुद्रशब्दः ख. पुस्तके सर्वत्र
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति