पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय योऽन्यदेवमुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां ऋरण्डकं समर्पयति यश्च सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मुल्य भूते पणे र्भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्ड इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुज्ञेया ॥ २४७ ॥ २४८ ॥ वणिजः प्रत्याह संभूय कुर्वतामर्घ सबाधं कारुशिल्पिनाम् । अर्धस्य हासं वृद्धिं वा जानतो दम उत्तमः ।। २४९ ।। राजनिरूपितार्धस्य हासं वृद्धिं वा जानन्तोऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरमर्धान्तरै लाभ लोभात्कुर्वन्तः पणसहस्त्रं दण्डनीयाः ॥ २४९ ॥ संभूय वणिजां पण्यमनर्वेणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ।। २५० ।। किंच । ये पुनर्वणिजो मिलित्वा देशान्तरादागतं पण्यमनघेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्वेण वा विक्रीणते तेषामुत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २५० ॥ केन पुनरर्षेण पणितव्यमित्यत आह राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निःस्रावस्तस्माद्वणिजां लाभकृत्स्मृतः ।। २५१ ।। राजनि संनिहिते सति यस्तेनार्घः स्थाप्यते निरूप्यते तेनाधेण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः स्रवो निःस्रवो विशेषैस्तस्माद्राजनिरूपिताघद्यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्धकरणे विशेषो दर्शितः (८॥४०२)–“पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते । कुर्वीत चैवैषां प्रत्यक्षमर्धसंस्थापनं नृपः ॥’ इति ॥ २५१ ॥ खदेशपण्ये तु शतं वणिग्गृहीत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ।। २५२ ।। किंच खदेशप्रासं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं सृह्णीयात् । परदेशात्प्रासे पुनः पण्ये शतपणमूल्ये दशपणॉलाभं गृह्णीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः काला न्तरे विक्रीणीते तस्य कालोत्कर्षवशार्लभोत्कर्षः कल्प्यः । एवं च यथार्धे निरू १ भिन्ने भिन्नमूल्ये घ. २ जानतां घ. ३ अवंशेषः घ. ४ वशालाभः कल्प्य ग