पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ याज्ञवल्क्यस्मृतिः । अगुसैकाङ्गसर्वखैः घ [ व्यवहाराध्यायः प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्वशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच चारणादिभार्याव्यतेि रेकेण । ( ८॥३६२ )–‘नैष चारणदारेषु विधिनर्मात्मोपजीविषु । सज्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥' ॥ इतेि मनुस्मरणात् ॥ २८५ तदिदानीं संग्रहणे दण्डमाह सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये पुंसो नार्याः कर्णादिकर्तनम् वधः ।। २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तसपरदाराभिगमने साशीतिपण सहस्त्रं दण्डनीयः । यदा स्वानुलोम्येन हीनवण स्त्रियमगुप्तसामभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्सामानुलोम्येन गुप्सां वा व्रजति तदा मानवे विशेष उक्तः (८॥३७८-३८३)–‘सहस्त्रं ब्राह्मणो दण्डयो गुप्तां विप्रां बलाङ्जन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥ तथा-‘सहस्त्रं ब्राह्मणो दण्डं दाप्यो गुसे तु ते ब्रजन् । शूद्रायां क्षत्रियवेिशोः सहस्त्रं तु भवेद्दमः ॥' इति । एतच गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् । ‘माता मातृष्वसा श्वश्रूमर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी खुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वणोत्तमा च या ॥ आसामन्यतमां गाच्छन्गुरुतल्पग उच्यते । शिक्षस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥’ इति नारदस्मरणात् । प्राति लोम्ये.उत्कृष्टवर्णस्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ताविषयम् । अन्यत्र तु धनदण्डः । (८॥३७७॥३७६)-“उभावपि हि तावेव ब्राह्मण्या गुस्सया सह । विलुतैौ शूद्भवद्दण्डयौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणीं यद्यगुप्तसां तु सेवेतां त्रैश्यपार्थिवौ । वैश्यै पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥’ इति मनुस्मर णात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं ब्रजतो लिङ्गच्छेदनसर्वस्वापहारौ । गुप्तां तु, ब्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् । (मनुः ८॥३७४ )

  • श्शूद्रो गुप्तसमगुसं वा द्वैजातं वर्णमावसन् । अगुप्समङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥

इति । नार्याः पुनहनवर्ण व्रजन्त्याः कर्णयोरदिग्रहणान्नासादेश्च कर्तनम् । आनु लोम्येन वा सवर्ण वा त्रजन्त्या दुण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव तयैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य ‘ब्राह्मणः परीक्षार्थमपि शस्त्र नाददीत’ इति शस्रग्रहणनिषेधांतू । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का“तदा स्वयमेव जारादीन्हन्यात् । (मनुः ८॥३४८)-'शस्त्र